________________
न्यायसिद्धान्तदीपे
मैवम् । संशयानन्तरं 'स्थाणौ पुरुष एवायमिति व्यवहारोऽपि पुरुषभेदाग्रहादेवोपपद्यते । न च संशयतादवस्थ्यं स्वतन्त्रोपस्थित परस्परविरुद्धोभयकोटिभेदाग्रहस्य संशयत्वात् । पुरुष एवायमित्यत्राभावविशेषणतया स्थाणोरुपस्थितत्वात् । अन्यथा तावतापि पुरुष एवायमित्यत्र संशयोत्पत्तिप्रसङ्गः ।
९४
नन्वसंसर्गाग्रहाच्चेत् प्रवृत्तिः सर्वत्र तदा वह्नयर्थिप्रवृत्तौ धूलीपटले धूम प्रतिसन्धानापेक्षा न स्यात् । उपस्थितवह्नयसंसर्गाग्रहार्थं सेति चेन्नै पूर्वमपि वहन्युपस्थितिसम्भवात् । तस्माद् धूमग्रहापेक्षायां * नियमेन वह्नय -- थिंप्रवृत्तौ निर्वह्नौ वह्नयनुमितिरुत्पद्यत इत्यवश्यं स्वीकर्त्तव्यम् ।
किञ्च कथमत्रानुमिनोमीति व्यवहारस्त्वत्पक्षे स्यात् । प्रत्यक्षोपस्थिते च विशेष्येऽसंसर्गाग्रहेण पीतः शङ्ख इत्यादौ साक्षात्करोमीति व्यवहारस्य त्वयेष्यमाणत्वादिति । एतदपि न साधु । पूर्वं वह्नयसंसर्गाग्रहसवेsपि निर्वह्नित्वा संसर्गाग्रहस्यापि विद्यमानत्वादिति । ततः कथं धूमप्रतिसन्धानात् प्राक् निष्कम्पं वह्नयर्थी प्रवर्त्तेत । बाष्पपूरे धूमप्रतिसन्धानानन्तरं नियमतो वह्नयुपस्थितौ तदसंसर्गाग्रहाद् वह्नयर्थी निष्कम्पं प्रवर्त्तते । अनुमि नोमीति व्यवहारस्यापि लिङ्गोपस्थापितव्यापकासंसर्गाग्रह एवं निबन्धनं तस्मादेतावतापि नान्यथाख्यातिसिद्धिः ।
किञ्चान्यथाख्यातिपक्षे इदं रजतमिति ज्ञानस्य को विषयः । शुक्तिरजते वाऽनयोस्तादात्म्यं वा, शुक्तित्वरजतत्वयोः सामानाधिकरण्यं वा, रजतत्वेन प्रकारेण शुक्तिर्वा । नाद्यः । समूहालम्बनेनाऽप्युपपत्तेः । न द्वितीयः । असत्ख्यातिप्रसङ्गात् । अत एव न तृतीयः । नापि चतुर्थः । तृतीयार्थानिर्वचनात् ।
किञ्च, दोषाणां प्रकृतकार्यप्रतिबन्धकत्वं दृष्टम् । न तु कार्यविशेषजनकत्वं दृष्टम् । कथमन्यथा दुष्टात् कुटजबीजात् न्यग्रोधाङ्कुरो न जायते ।
१. P repeats a previous line here । २. M 1 reads तवापि । ३. P reads वयसंसर्गाग्रहार्थमिति चेन्न । ४. P misses - सम्भवात् । तस्माद् धूमग्रहापेक्षायां । ५. P reads धूलीपटले । ६. Padds नियमतः । ७. P misses नापि चतुर्थ: तृतीयार्था and then reads निबन्धनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org