________________
अन्यथाख्यातिवादः। न च तत्र दोषस्यैव सन्निकर्षत्वं, पोढाप्रेत्यासत्तिरबहिर्भावेन तस्यासन्निकर्षत्वात् । न च तत्र ज्ञानान्तरोपनीते मन एव करणं युक्तम् । बहिर्विशेष्यके मनसोऽस्वातन्त्र्यात् ज्ञानान्तरोषनयस्य तद्विशेषणकसाक्षात्कारे प्रयोजकत्वात् । परमाणुमहं जानामीत्यत्र तथा दर्शनात् । अन्यथाऽनुमिल्यादेरुच्छेदापातात् । अग्रहपः त्वस्य दोषस्यासम्भवात् ।
ननु भेदाग्रहात् प्रवृत्तिरनुपपन्ना । तथाहि यथोपस्थितेष्टभेदाग्रहस्य प्रवर्तकत्वं तथोपस्थितानिष्टभेदाग्रहस्य निवर्तकत्वं वाच्यम् । न त्विष्टभेदाग्रहस्य । तथात्वे सत्यरजतस्थले नेदं रजतमिति कृत्वा न निवर्तेत तत्रेष्टभेदग्रहस्याभावात् । भावे वा विपरीतख्यात्यापत्तेः । तथा च शुक्ताविदं रजतमेव न शुक्तिरिति ज्ञानादुपस्थितेष्टानिष्टाभेदाग्रहसहितात् प्रवृत्तिनिवृत्तियौगपधापत्तिः । न च तत्रानिष्टभेदग्रह एवेति वाच्यम् । अन्यथाख्यातिस्वीकारापत्तेः । न च स्वातन्त्र्योपस्थितानिष्टभेदाग्रहस्य निवर्तकत्वमिति वाच्यम् । स्वातन्त्र्यस्य निर्वक्तुमशकयत्वात् ।।
एतदपि न साधीयः । अभावविशेषणतयोपस्थितानिष्टभेदाग्रहस्य निवर्तकत्वात् । प्रवर्तकत्वमप्यभावाविशेषणतयो पस्थितेष्टभेदाग्रहस्यैव, तेन सत्यरजते नेदं रजतमिति कृत्वा न प्रवृत्त्यापत्तिः । तस्य च प्रकृतेऽमावात् । यद्वा आरोपनियमार्थमवश्यं भेदाग्रहे विशेषः स्वोकर्तव्यः । स च विशेषः प्रवृत्तिप्रयोजक एवास्तु । न च प्रकृते तथा विशेषः, अन्यथोभयभेदाग्रहात् संशय एव स्यात् । न त्विदं रजतमेवेति विपर्ययः ।
ननु स्थाणौ स्थाणुर्वा पुरुषो वेति संशयानन्तरं पुरुष एवेति व्यवहारस्तावद् दृश्यते । तत्र च न भेदाग्रहस्य निमित्तत्वं स्थणौ पुरुषभेदाग्रहवत् स्थाणुभेदाग्रहस्यापि विद्यमानत्वात् एककोटिकव्यवहारानुपपत्तः संशयतादवस्थ्यं स्यात् । एकस्मिन्" परस्परविरुद्धभेदाग्रहस्य तव संशयत्वात् । नच तत्र स्थाणुभेदग्रह एव । विपरीतख्यातिप्रसङ्गात् । तस्मादनन्यगत्या विपरीतख्यातिः स्वीकर्तव्येति ।
१.Preads प्रौढप्रत्यासत्ति। २.P reads तद्विशेषणक एवं साक्षात्कारे। ३.Preads मेदाग्रहपक्षे। ४. P reads अभावात् । ५. Pmisses प्रवर्तकत्वं तथोपस्थितानिष्टभेदाग्रहस्य । ६. P reads सत्यरजते । ७. P+ I. O. read °प्रवृत्त्योयोगपद्यापत्तिः । ८. Pmisses निवत्तकत्वम्। ९. P+ M read स्थाणुपुरुषसंशयानन्तरम् । १०. P adds धर्मिणि । ११. P+ M. read परस्परविरुद्ध मेदाग्रहस्य। १२. P reads अगत्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org