________________
न्यायसिद्धान्तदीपे व्याप्यवृत्त्यत्यन्ताभावसमानाधिकरणं न वा । एवं विप्रतिपत्तिव्यवस्थितौ विचारसम्भवे प्राभाकराणामयमाशयः । रजततया शुक्तिज्ञानं तत्र रजतव्यवहारान्यथानुपपत्त्या स्वीकर्तव्यम् । नयोश्च रजतत्वप्रकारकज्ञानसाध्यत्वं तच्च स्मरणरूपं वृत्तमेव न तु व्यवहत्तव्यविशेष्यकरजतत्वप्रकारकज्ञानजन्यता व्याहारंव्यवहारयोगौरवात् । न च यत्र कचिद्रजतज्ञाने सर्वत्र व्याहारव्यवहारप्रसङ्गः दोः। अभेदव्यवहारे भेदाग्रहस्य संसर्गव्यवहारेऽसंसर्गाग्रहस्य च नियामकत्वात् । अस्य च भ्रमवादिनाऽपि नियमार्थमङ्गीकार्यत्वाच्च । सत्यरजतस्थलेऽपि भेदाग्रहादेव तदुपपत्तों वैशिष्टयस्यापयोजकत्वात् ।
ननु ज्ञानं 'व्यवहारादिना कल्पनीयमिति नाङ्गीकुर्मः। किन्तु मानसप्रत्यक्षसिद्धम् तत् । तस्य चान्वयव्यतिरेकाभ्यामेव व्यवहारादिकारणत्वं मानसप्रत्यक्षसिद्धम् । यथा सत्यरजतज्ञाने भवति तथा विपरीतरजतबोधेऽपि', कथमन्यथा शुक्तो रजततया मया ज्ञायतेति" व्यवहारो बाधावतारेऽपि। तदिदमुक्तमाचार्यैः
"संसर्गः कापि न सिध्येद"इति । एतदपि नास्ति शुक्तौ रजतसाक्षात्कारस्य कारणबाधेन बाधात् , शुक्की रूप्यतया ज्ञातेति व्यवहारस्य प्राचीनभेदाग्रहनिबन्धनत्वात् । तथा हि रजनसाक्षात्कारे रजतेन्द्रियसन्निकर्षः कारणं तद्व्यतिरेकेण शुक्तौ कथं तदुत्पत्तिसम्भावनापि । न च साक्षात्कारमात्रे विशेष्ये न्द्रियसन्निकर्षः कारणं, तद्विशेषे च रजतसाक्षात्कारे तद्विशेष्येन्द्रियसन्निकर्षस्यैव कारणत्वं विशेषे विशे ध्यविशेषेन्द्रियसन्निकर्षस्यैव कारणत्वेनाङ्गोकारात् इति वाच्यम् । कचिद्विशेप्यासन्निधाने हि" साक्षात्कारभ्रमस्य त्वयाङ्गीकारात् । तथाहि साक्षादूर्ध्व वस्तु दृष्ट्वानन्तरमैन्यत्र गत्वा चिन्तयतो भवति ‘स स्थाणुः स्यात् पुरुषो वा'इति संशयः। न च ज्ञानधर्मिक एवं संशयस्तत्रेति वाच्यं, ज्ञानाभानेऽपि तथा संशयात् । एवं विपर्ययोऽप्यूहनीयः।
१. P+ M, drop -व्याप्यवृत्ति । २. P reads विचारविषये । ३. I O. reads त्रिपुटप्रत्यक्षवादिनाम् । ४. P reads "ज्ञानजन्यं व्याहारव्यवहारयोः गौरवात् । ५. I, O. readsmवहारादिप्रसङ्गो दोषः। ६. M+M, read आरोपनियमार्थम् । ७.P reads तदुपपत्तेः । ८. P reads व्यवहारादि कल्पनीयम् । ९. P reads रजत विज्ञानेऽपि। १०. P reads ज्ञातेति । ११. P reads अपि । १२. P drops अनन्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org