________________
न्यायसिद्धान्तदीपे
मिति' । न च प्रमाणमग्रहमेव कारणत्वेन गोचरीकरोति । गौरवपराहतेरुक्तत्वात् ।
९६
न च क्वचिद्विशेष्यासन्निकर्षेऽपि बहिर्विशेष्यकभ्रमस्वीकारेण कारणबाधात् तद्बाध इति युक्तम् । ज्ञानान्तरोपनीते बहिर्विशेषणकज्ञानवत् ज्ञातः परमाणुरित्यादौ बहिर्विशेष्यकज्ञानस्यापि सम्भवात् कार्यदर्शनस्योभयत्रापि समानत्वात् । न चानुमित्युच्छेदप्रसङ्गः । अत्र तृतीयलिङ्गपरामर्शस्थळे विशेषस्योक्तत्वात् । न च स्वातन्त्र्योपस्थितानिष्टभेदाग्रहस्य निवर्त्तकत्वम् । परस्पराभावविशिष्टे शुक्तिरजते इति ज्ञानाच्छुक्तौ रजतार्थी न निवर्त्तेत ।
किञ्च इमे रङ्गरजते इत्यत्र स्वातन्त्र्योपस्थितेष्टानिष्टभेदाग्रहस्य 'विद्यमानत्वात् किमिति युगपत् प्रवृत्तिनिवृत्ती न स्याताम् । न च यत्र यन्निष्ठेन सादृश्येन यत्स्मारितं तत्र तद्भेदाग्रहस्य नियामकत्वमिति वाच्यम् । अनुभूयमानारोपे सत्यरजतस्थले च तदभावात् । न च तत्रारजते रजतभेदग्रह एव । न चान्यथाख्यातिः रजतभेदासंमर्गाग्रहस्यैवारजतभेदग्रहार्थत्वादिति वाच्यम् । सत्यरजतस्थले रजतभेदासंसर्गाग्रहस्य विद्यमानत्वात् प्रवृचिदशायां तत्रापि निवर्त्तेत । शुक्तौ चेदं रजतमिति ज्ञानेऽपि रजत भेदासंसर्गाग्रहात् युगपत् प्रवृत्तिनिवृत्तिप्रसङ्गात् । न च तत्र रजतभेदासंसर्गाग्रहः । अन्यथाख्यात्यापत्तेः । न च तत्र रजतभेदासंसर्गाग्रहानंन्तरं न निष्टत्तिरिति वाच्यम् । असंसर्गासंसर्गस्य संसर्गाऽतिरिक्तस्याभावात् । अग्रहस्य व्यवहारानुत्पादकत्वाच्च । नतु किं विशेषनिष्टंकनेन यदेव तव भ्रमेनिया - मकं तदेव प्रवृत्तावस्तु । अन्यथा तव किमिति भेदज्ञानं न जायते इति ।
मैवम् । भ्रमनियामकस्य सत्यरजतस्थलेऽभावात् न च तत्र प्रवर्त्तेत । सादृश्यं हि तथा । न च तत्र रजतैसादृश्यमस्ति रजते रजतसादृश्याभावात् भ्रमनियामकस्य भ्रमनिरूपणीयत्वात् । भ्रमस्य च त्वयाऽनङ्गीकारात् । अङ्गीकारे वा विवादपर्यवसानात् । उपजीव्यप्रमाणविरोधाच्च ।
१. P reads प्रमायाम् । २. Preads ज्ञानान्तरेणोपनीते । ३. P reads ज्ञानसम्भ वात् । ४. P reads विशेष्यकज्ञानज्ञानस्यापि । ५. Mg reads प्रवर्त्तेत । ६. Padd निवत्तर्कस्य here । ७. P reads प्रवृत्तिप्रसङ्गात् । ८. P reads अन्यथाख्यातिस्वीकारापत्तेः SP reads संसर्गाग्रहान्न निवृत्तिः । १०. P reads इत्युक्तत्वात् instead of च ११. Preads रजते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org