Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 108
________________ व्याप्तिग्रहवादः। किच सकृदर्शनेन वह्निध्रमयोः कस्य स्वाभाविकः सम्बन्धः कस्य सोपाधिक: सम्बन्ध इति न निश्चेतु शक्यते व्यभिचारिसाधारण्यात् । योग्यायोग्योपाधिनिरासस्याशक्यत्वात् । यद्वा सर्वोपसंहारेण सामान्यलक्षणया प्रत्यासत्त्या व्याप्तिाह्या । सामान्यत्वं ने सकृदर्शनगम्यम् । अतो भूयोदर्शनोपयोगः। ___ ननु सर्वोपसंहारेण व्याप्तिहयते इत्यसिद्धम् । गृहीततावद्व्यक्तिव्यतिरिक्तातीतानागतव्यक्तिभाने प्रमाणाभावात् । भावे वा षोढा प्रत्त्यासत्तिबहिर्भावप्रसङ्गात् । न च पक्षनिष्ठधूमगतव्याप्तिग्रहस्यानुमितिकारणत्वे तस्य चानुमानस्य पक्षनिष्ठधृमव्याप्यत्वग्रहजन्यत्वेन तव्याप्यत्वग्रहस्य तद व्यापकग्रहाधीनत्वेन सामान्यलक्षणाप्रत्यासत्तिः कल्पनीयेति वाच्यं, तत्र मया व्याप्तिग्रहस्यानङ्गीकारात् । व्याप्यजातीयग्रहस्य पक्षेऽनुमितिकारणत्वादिति । मैत्र, वह्निप्रतियोगिकव्याप्तिविशिष्टयावद्धर्मग्रहस्य मानसप्रत्यक्षसिद्धत्वात् । तदनुरोधेन सामान्यलक्षणायाः प्रत्यासत्तेः कल्पनात् । न चातिरिक्तप्रत्यासत्तिकल्पनापत्तिविशेषणतायामेवान्तर्भावात् । ___ यद्वा कतिपयव्यक्तिसन्निकर्षमासाधासन्निहितातीतानागतव्यक्तिविषयकं ज्ञानं चक्षुरादिनैव जन्यते । न च चक्षुरादिना असन्निकृष्टज्ञानेजननेऽतिप्रसङ्गः । योगजादृष्टवत् सामान्यवत्त्वस्य नियामकत्वात् । धुमत्वस्य सामान्यत्वग्रहे सर्वा एवातीतानागतव्यक्तयोऽवभासन्ते । यावद्विशेषसंनिकर्षस्य गौरवकर त्वात् साक्षात्काराकारणत्वात् । यद्वा सामान्यलक्षणया प्रत्यासत्त्या असनिकृष्टातीतानागतव्यक्तयभाने कथं प्रागप्रतीतवह्निविशेषगकपर्वत विशेष्यकमनुमितिज्ञानं, विशेषणज्ञानस्य विशिष्टज्ञानं प्रति कारणत्वात् । न च तदनुरोधेन व्यापक एव 'तेथाऽऽस्तामिति वाच्यम् । व्याप्येऽपि प्रत्यासत्तेरविशेषात् । धूमस्यापि क्वचिद् व्यापकत्वात् । नापि द्वितीयः । इष्टत्वात् । न ह्यस्माकं दर्शनानां भूयस्त्वं तन्त्रं किन्तु सकृद्दर्शनेन चक्षुरादिना व्याप्तिर्गृह्य ते शब्दादिना सकृद्दर्शनेनापि गृह्यते इति न तन्निषिध्यते । १. P misses न and adds च । २-२ This portion is missing in M, । ३. P misses व्यक्ति-। ४. P+MI read तद्व्याप्यत्वस्य । ५. P+I. o. read धूमग्रहस्य। ६. P reads कथ्यमानत्वात् । ७. Ma reads असन्निकृष्टा - तीतादिज्ञानजनने । ८.P reads सामान्यस्य । ९-९ This portion is missing in M4 | १०. P reads विशिष्टज्ञानकारणत्वात् । ११. P reads तदास्ताम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270