________________
व्याप्तिग्रहवादः। किच सकृदर्शनेन वह्निध्रमयोः कस्य स्वाभाविकः सम्बन्धः कस्य सोपाधिक: सम्बन्ध इति न निश्चेतु शक्यते व्यभिचारिसाधारण्यात् । योग्यायोग्योपाधिनिरासस्याशक्यत्वात् । यद्वा सर्वोपसंहारेण सामान्यलक्षणया प्रत्यासत्त्या व्याप्तिाह्या । सामान्यत्वं ने सकृदर्शनगम्यम् । अतो भूयोदर्शनोपयोगः।
___ ननु सर्वोपसंहारेण व्याप्तिहयते इत्यसिद्धम् । गृहीततावद्व्यक्तिव्यतिरिक्तातीतानागतव्यक्तिभाने प्रमाणाभावात् । भावे वा षोढा प्रत्त्यासत्तिबहिर्भावप्रसङ्गात् । न च पक्षनिष्ठधूमगतव्याप्तिग्रहस्यानुमितिकारणत्वे तस्य चानुमानस्य पक्षनिष्ठधृमव्याप्यत्वग्रहजन्यत्वेन तव्याप्यत्वग्रहस्य तद व्यापकग्रहाधीनत्वेन सामान्यलक्षणाप्रत्यासत्तिः कल्पनीयेति वाच्यं, तत्र मया व्याप्तिग्रहस्यानङ्गीकारात् । व्याप्यजातीयग्रहस्य पक्षेऽनुमितिकारणत्वादिति । मैत्र, वह्निप्रतियोगिकव्याप्तिविशिष्टयावद्धर्मग्रहस्य मानसप्रत्यक्षसिद्धत्वात् । तदनुरोधेन सामान्यलक्षणायाः प्रत्यासत्तेः कल्पनात् । न चातिरिक्तप्रत्यासत्तिकल्पनापत्तिविशेषणतायामेवान्तर्भावात् ।
___ यद्वा कतिपयव्यक्तिसन्निकर्षमासाधासन्निहितातीतानागतव्यक्तिविषयकं ज्ञानं चक्षुरादिनैव जन्यते । न च चक्षुरादिना असन्निकृष्टज्ञानेजननेऽतिप्रसङ्गः । योगजादृष्टवत् सामान्यवत्त्वस्य नियामकत्वात् । धुमत्वस्य सामान्यत्वग्रहे सर्वा एवातीतानागतव्यक्तयोऽवभासन्ते । यावद्विशेषसंनिकर्षस्य गौरवकर त्वात् साक्षात्काराकारणत्वात् । यद्वा सामान्यलक्षणया प्रत्यासत्त्या असनिकृष्टातीतानागतव्यक्तयभाने कथं प्रागप्रतीतवह्निविशेषगकपर्वत विशेष्यकमनुमितिज्ञानं, विशेषणज्ञानस्य विशिष्टज्ञानं प्रति कारणत्वात् । न च तदनुरोधेन व्यापक एव 'तेथाऽऽस्तामिति वाच्यम् । व्याप्येऽपि प्रत्यासत्तेरविशेषात् । धूमस्यापि क्वचिद् व्यापकत्वात् ।
नापि द्वितीयः । इष्टत्वात् । न ह्यस्माकं दर्शनानां भूयस्त्वं तन्त्रं किन्तु सकृद्दर्शनेन चक्षुरादिना व्याप्तिर्गृह्य ते शब्दादिना सकृद्दर्शनेनापि गृह्यते इति न तन्निषिध्यते ।
१. P misses न and adds च । २-२ This portion is missing in M, । ३. P misses व्यक्ति-। ४. P+MI read तद्व्याप्यत्वस्य । ५. P+I. o. read धूमग्रहस्य। ६. P reads कथ्यमानत्वात् । ७. Ma reads असन्निकृष्टा - तीतादिज्ञानजनने । ८.P reads सामान्यस्य । ९-९ This portion is missing in M4 | १०. P reads विशिष्टज्ञानकारणत्वात् । ११. P reads तदास्ताम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org