________________
(१९) व्याप्तिग्रहवादः ।
सा च व्याप्तिर्भूयः सहचारदर्शनव्यभिचारादर्शनानोपाधिकत्वग्रहविपक्षबाधकतकैर्गृह्यते । ननु सकृद्दर्शनेनैव व्याप्तिर्गृह्यते न तु भूयो दर्शनेन, भूयो दर्शनस्य शतशो व्यभिचारित्वात् । तत्र सहकारिविशेषस्वीकारे प्रथमदर्शन एवं तुल्यत्वात् । अत एव य एव सम्बन्धो मया गृहीतः पुरा स एव पश्चादपि गृह्यते इति सकलजनसिद्धः व्यवहार इति । मैवं, सकृत्सहचारदर्शने उभयकोट्युपस्थितौ साध्यव्यभिचारसंशयो भवत्येव भूयोदर्शने तु उभयकोट्युपस्थितौ कदाचिद् व्यभिचारसंशयों न भवत्यपि । अतो भूयोदर्शनस्य व्याप्तिग्रह कारणत्वस्वीकारात् ।
किञ्च सकृद्दर्शनेन व्याप्तिगृह्यते इत्यस्य कोऽर्थः । किं प्रथमदर्शनस्यैव व्याप्तिविषयकत्वं व्याप्तिविषयकज्ञानजनकत्वं वा ।
नाथः । प्रथमदर्शनस्य व्याप्तिविषयकत्वे अनन्तरं संशयो न स्यात् । निश्चिते संशयायोगात् । न च भूयोदर्शनेऽपि समानमेतदिति वाच्यं, न हि भूयोदर्शनेन व्याप्तिर्गृह्यत एवें । किन्तु यदा गृह्यते तदा तर्कादिसहकारिणा भूयो दर्शनेनैव । अत एवोच्यते न दर्शनानां बहुत्वसंख्यानियम इति ।
ननु ममापि समानमेतत् । न हि सकृद्दर्शनेन व्याप्तिर्गृह्यत इति । किन्तु यदी गृह्यते तदा तर्कादिसहकारिणा सकृद्दर्शनेनैवेति मत्पक्ष इति चेत्, न । प्रथमदर्शने तर्कादेरेवानवतारात् । सर्वत्र संशयोपस्थापितकोटिवियस्तर्कों भवति । अत्र तु सहचारदर्शनस्य संशायकत्वे तदनन्तरं संशयेन भवितव्यमिति सहचारदर्शनमुपजीव्यैव परं तर्कावतारात् । निर्विषय कस्य तर्कस्याभावात् । यद्ययं धूमो वह्निव्यतिरेकेण स्यादकारणकः स्यादि त्येवमाकारस्य तर्कस्य प्रथमदर्शनपूर्वसमये असम्भवात् । एतेन य एव सम्बन्धो मया गृहीतः स एवेदानीं गृह्यते इति निरस्तम् । सम्धन्धमात्रस्याव्याप्तित्वात् " व्याप्तिग्रहस्य च निरूप्यमाणत्वात् ।
१. Preads अपि । २ P+M drop सकलजनसिद्धः । ३. P drops साध्य, [. O reads only संशयः । ४ P adds इत्युच्यते । ५. P reads एव । . P adds व्याप्तिः here i ७. P+IO. drop चेत् । ८. P reads दीनामनवतारात् । ९ Preads च । १०. P missed अव्याप्तित्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org