________________
२० विधिवादः । प्रवृत्तिपरवाकयश्रवणानन्तरं प्रयोज्यस्य तत्तदर्थसम्बन्धव्यापारानुकूलां चेष्टां पश्यन् तटस्थः स्वचेष्टायां कृतेः कृतौ च चिकीर्षायाश्चिकोर्षायां समानाधिकरणसमानविषयक ज्ञानस्यैवावधृतकारणभावः-इति प्रयोज्यस्यापि तत्कारणीभूतं ज्ञानमनुमाय तस्य ज्ञानस्ये वाक्यजन्यताप्रवृत्तौ जनयितव्यायां शब्दव्यापारत्वं चावधारयति । तस्य ज्ञानस्य प्रवृत्ति प्रति जनकत्वम् ज्ञानत्वाधनवच्छेधं यद्विषयप्रकारावच्छेद्यतामादाय विश्राम्यति स प्रकारो विधीयते ज्ञाप्यतेऽनेनेत्यनया व्युत्पत्त्या ज्ञानं कर्मविधिरुत्पाद्यते । तदुक्तं कुसुमाजलौ
"प्रवृत्तिः कृतिरेवात्र सा चेच्छातो यतश्च सा ।। तज्ज्ञानं विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा ॥" [5.71
‘स प्रकारः किं प्रवृत्तिपरशब्दत्वं वा तद्व्यापारोऽभिधा वा भावना वा सैव नियोज्यप्रयोजनफलिका वा इष्टत्वं वा संकल्पो वा वक्त्रभिप्रायो' वा कार्यता वा इष्टहेतुत्वं वा । एवं विप्रतिपत्तौ चरमः पक्षो गौतमीयानां, स एव युक्त इतरेषामप्रवर्तकत्वात् ।
तथाहि न तावदाद्यः । अश्रुतवाक्यस्य बधिरस्याव्युत्पन्नस्य च प्रवृत्तिदर्शनात् । अग्निष्टोमादिवाक्यजानां प्रवर्तकज्ञानानां प्रवृत्तिपरशब्दत्वाप्रकारत्वाच्च । नापि द्वितीयः। अभिधायाः पदार्थस्मृतिहेतुभूतपदतदर्थसम्बन्धात् सङ्केतरूपाद् भिन्नाया असिद्धेः । नापि तृतीयः । भावनाज्ञानस्याप्रवर्तकत्वात् , तस्याश्च सर्वलकारवाच्यत्वात् असाधारण्येन लिङाद्यर्थत्वानुपपत्तेश्च । न च करोतीत्यादौ कृतेः स्वगोचरताविरोधेन सजातीयारम्भकत्वनिषेधेन च संख्यैवाख्यातार्थ इति वाच्यम् । आख्यातोपस्थाप्यकृतेरनन्वयेऽपि तदुपस्थाप्यानुकूलत्वांशमादाय धात्वर्थकृतेरन्वयसम्भवात् । न च सर्वलकारैः कृतिरभिधीयत इत्यसिद्धमिति वाच्यम् । भिन्नसमयानुशिष्टानां लडादीनाम् अर्थस्य कृत्यैव व्याकारात् । न च फलानुकूलव्यापार एषामों, न कृतिः, कृतिरप्यनेनोपाधिनेति वाच्यं, नियमतः
१. P reads स्वचेष्टां । २. P adds च here । ३. P reads अभिधीयते । ४. P reads . प्रयोजनिका ।५. P+I. O. read वक्तुरभिप्रायो वा । ६. M, reads सङ्केतभिन्नायाः। 9. P reads .विरोधेन । ८. P+I. O.. read अनन्वयप्रसङ्गाभावात् । ९. Preads-सर्वलकारेण । १०. P reads एवायमर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org