________________
5NS
(२२) अन्यथाख्यातिवादः। अन्यथाख्यातौ तावत् सम्प्रदायसिद्धा विप्रतिपत्तेयः। अरजतं रजतत्वप्रकारकज्ञानविषयो न वा । रजतज्ञानम् रजतविषयं न वा । अरजतं रजतत्व. प्रकारविषयताश्रयो न वा । रजतत्वप्रकारिका विषयता अरजतनिष्ठा न वा। ज्ञानं स्वविषयताव्यधिकरगप्रकारकं न वा । इदं ज्ञानं व्यधिकरणप्रकारावच्छिन्नविषयताकं न वा । ज्ञानं विशिष्टज्ञानत्वेन प्रवृत्तिजनकं न वा।
नाद्योऽर्थान्तरन्वात् समूहालम्बनरूपतयाऽप्युपपत्तेः । नापि द्वितीयोऽत. एव । नापि तृतीयः, अन्यथाख्यातिवादिनां नेति कोटेरप्रसिद्धः । तैः रजतत्वप्रकारविषयत्वस्य केवलान्वयित्वाङ्गीकारात् । नापि चतुर्थः । साधारण्याभावात् । नापि पञ्चमः । सामान्यतोऽप्रसिद्धः। नापि षष्ठः । परं प्रत्यसिद्धेः । व्यक्तिविशेषविवक्षायाम् असाधारण्यात् । किञ्चेदं ज्ञानमिति सत्यरजतज्ञानं वा विवक्षितं शुक्तिगोचरं वा । नाद्यः, तत्र व्यधिकरणप्रकारावच्छिन्नत्वे साध्ये बाधात् । नेतरः। परं प्रत्यसिद्धर्बाधाच्च । नापि सप्तमः । तथाहि तत्रायमर्थों रजतार्थिन: प्रवृत्ति प्रति कारणत्वे प्रवृत्तिसमानविषयरजतत्वप्रकारावच्छिन्नविषयता प्रतियोगिज्ञानत्वेनावच्छिद्यते न वा । इयं च विप्रतिपत्ति न्यथाख्यातो, अपि तु तद्वयाप्ये विप्रतिपत्तेः स्वविषयसंशयजननद्वारा विचारनुकूलत्वमनया च विप्रतिपत्त्या समानविषयकश्च संशयः कर्त्तव्यः, तेन च समानविषयक एव विचारः प्रवर्तयितव्यः। तद्विषयश्च नान्यथाख्यातिरूपः, अपि तु तव्याप्यरूपैः । न च व्यापकसि द्धयर्थ कथायां व्याप्यसाधनं युज्यते अप्राप्तकालत्वात् । न च वैशिष्टयस्य कारणतावच्छेदकतानिषेवेन अन्यथाख्यातिनिषिद्धा भवतीति महान् प्रमाद इति ।
मैवम् । रजतत्वावच्छिन्नकार्यज्ञानविषयता अरजतनिष्ठात्यन्ताभावप्रतियोगिनी न वेत्येव विप्रतिपत्तिः, रजतत्यप्रकारिका विषयिताऽरजतनिष्ठा न वेति चा । न चासाधारण्यं दोषः । एतावताऽप्यन्याख्यातिविचारानुकूलत्वानपायात । यद्वा ज्ञानत्वं यथार्थत्वव्याप्यं न वा । यद्वा ज्ञानविषयत्वं स्वप्रकार
१. P reads °सिद्धा विप्रतिपत्तिः । २. P reads सत्यं ज्ञानं । ३. M, reads तीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, obviously as adjectives of विप्रतिपत्ति. But other mss do not agree. 1 8-8. This Portion is missing in P। ५. P reads तव्यापाररूपः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org