________________
૪૮
न्यायसिद्धान्तदीपे जनकत्वानभ्युपगमादित्याहुः । अपरे “अध्रौव्ये सिद्धसाधनादे" इत्यत्रैत्र भरं कुर्वाणा: समवायादेरपि निर्विकल्पकविषयत्वमाहुः। अत एव निर्विकल्पकविषयत्वमेवार्थस्य लक्षणं स्वीचक्रिरे ।
ननु असङ्गतमेतत् । विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वे प्रमाणाभावात् । तथाहि । दण्डी पुरुष इत्यत्र प्रथमं दण्ड ज्ञानमनन्तरं तद्विशिष्टपुरुपज्ञानमित्यत्र न किश्चित् प्रमाणम् । न च कारणीभूतज्ञानविषयत्वे सति कार्याभूतज्ञानविषयत्वं विशेषणत्वमिति वाच्यं, वैपरीत्यस्यापि सुवचत्वादिति । न चानुमितौ व्याप्यव्यापकत्वादिविशेषण ज्ञानस्य जनकत्वदर्शनादन्यत्रापि विशिष्टभाने विशेषणज्ञानस्य जनकत्वं कल्पनीयमिति वाच्यम् । तद् दृष्टान्तेनैव विशेष्यज्ञानस्यापि विशिष्टज्ञानजनकताकल्पनाप्रसङ्गात् । पर्वतादिकं हि पक्षीकृतमनुमितौ विशेष्य तज्ज्ञानं च तत्र 'जनकमेवेति ।
मैवम् । अगृहीतदण्डस्य हि दण्डी पुरुष इति प्रत्ययानुदयदर्शनेन अन्वयव्यतिरेकाभ्यामेव विशेषणज्ञानस्य विशिष्टज्ञानकारणत्वावधारणादिति संक्षेपः ॥१४॥
१. See न्यायकुसुमाञ्जलि, ३.२२ । २. P reads भरङ् कुर्वाण, and adds a question mark here ?' । ३. Ma reads विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वे । ४. P reads विशिष्टज्ञाने, Pn reads विशिष्टभाने । ५. P drops तत्र, I.O. reads तज्जनकमेव । ६. P reads इति निर्विकल्पकवादः, I. O. reads इति चतुर्दशो वादः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org