________________
4
न्यायसिद्धान्तदीपे शादेरपि मुक्तत्वप्रसङ्गो दोषाय। उक्तदुःखध्वंसरूपस्य तत्सम्बन्धस्य साध्यत्वात् । न चावश्यकत्वेन स एव मुक्तिरिति' वाच्यं, 'दुखेनात्यन्तविमुक्तश्वरति'इति श्रुत्या मुक्तिदशायामात्मनो दुःखात्यन्ताभावस्य बोधनात् । न श्रुतावपि तथाविधध्वंस एवं विवक्षित इति वाच्यम् । अत्यन्तविमोचकैपदस्य अत्यन्ताभावे व्युत्पन्नत्वात् । एवंविधध्वंसपरत्वे लक्षणाप्रसङ्गादित्याहुरिति सधैः ॥ १० ॥
१. P reads मुक्तिपदार्थ इति । २. P reads भत्यन्तविमोकपदस्य । ३. P adds एव । ४. P reads एवंविधदुःखध्वंस । ५. P reads प्रसङ्गः । ६. P reads इति मुक्तिवाद:, I. O. reads इति दशमो वादः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org