________________
न्यायसिद्धान्तदीपे तथात्वात् । अतिरिक्तान्योन्याभावकल्पनायाम् तत्प्रतियोगिनोऽप्यतिरिक्तस्य कल्पनापातात् । शक्तेर्नामान्तरकरणप्रसङ्गाच्चेति ॥श्रीः॥
अत्रोच्यते-कार्यनियतपूर्ववर्तिजातीयत्वमेव कारणत्वम् । न चाकाशादेरपि कारणत्वम् । सामान्यत इष्टत्वात् । न ह्याकाशादिकं न किश्चिदपि प्रति कारणम् ।
विशिष्य तु अनन्यथासिद्धेतरपूर्ववर्तित्वानु जीविवटपूर्ववर्तित्वनिरूपितनियतसमवधानप्रतियोगिजातीयत्वं तत् । अनन्यथासिद्धत्वं च यत्कार्य प्रति यस्य नियतान्वयव्यतिरेकौ तदुपजीवनेन यस्यान्वयव्यतिरेकौ तदनर्वच्छिन्नान्वयव्यतिरेकप्रतियोगित्वम् । प्रागभावत्वं च गन्धानाधारसमयानाधारभावत्वादिकमूह्यम् ।
यद्वा सहकारिविरहँप्रयुक्त कार्याभाववत्त्वमेव कारणत्वम् । अस्यार्थः। इतरव्यतिरेकावछिन्नकार्यानुत्पादव्याप्यत्वम् । अनुत्पादश्वोत्पत्त्यवच्छिन्नप्रतियोगिकोऽत्यन्ताभावः । स चोत्पत्तिप्रत्यासत्तिविरोधिप्रत्यासत्तिकोऽतो नातिप्रसङ्गः। एवं सहकारिप्रयुक्तत्वादिदूषणानवकाशः ॥ श्रीः॥ छ ॥ इति कारणतावादस्तृतीयः ॥
१. I.O.+P. read तत्त्वायोगात् । २. Pn reads (अन्योन्याभावविषयकल्ल्पवे, P+Ma+I.O. read-.कल्पने। ३. Pn reads नामान्तरकल्पनापातात् ।१.M+I.O. drop प्रति० ।५. Pa reads विशिष्टं तु । ६. P reads तदवछिन्न । ७. P+M, read वैकल्य० । ८. Found only in I.O. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org