________________
२७
मनोऽणुत्ववादः । यद्वा सुखादिप्रतीति'रिन्द्रियकरणिका जन्यसाक्षात्प्रतीतित्वाद्रूपप्रतीतिवदित्यपि मनसि मानं, न च त्वचा सिद्धसाधनम् । स्पर्शोपग्रहेणैव तत्कारणत्वावधारणात् । न चैवमणुत्वाधसिद्धिः, धारावाहनज्ञानक्रमवद् व्यासङ्गस्योपपनेरिति वाच्यम् । तत्र हि पूर्वपूर्वज्ञानापेक्षिकत्वमेवोत्तरोत्तरस्य विशेषणज्ञानत्वेनापेक्षणात् । ननु तथापि बुभुत्सैवास्तु नियामिका तस्या अवश्यं नियामकत्वेनाङ्गीकर्तव्यत्वात् घटायोन्मीलने पटप्रकाशनं क्रमेण भवति बुभुत्सापगमात् तस्मादन्यथासिद्धस्य व्यासङ्गस्य कथं मनोऽणुत्वसाधकत्वमिति । मैवम् । सुखादिप्रादेशिकत्वनियमार्थ प्रादेशिकमसमवायिकारणत्वमङ्गीकार्य विभुकायें तथैवावधारणात् । न च शरीरसंयोगस्य तथात्वं सकलशरीरावच्छेदेन तदुत्पत्तिप्रसङ्गात् । न च तदवयवानामवच्छेदकत्वम् । अवयवाव्यापिसुखस्य दर्शनात् । न च तत्राऽपन्यस्यावच्छेदकत्वम् अननुगमात् । न च विभुमनःसंयोग एवासमवायिकारणं प्रादेशिकत्वानुपपत्तिप्रसङ्गात् । न च तत्राऽप्यव्याप्यवृत्त्यवच्छेदककल्पना, शरीरादीनामवच्छेदकत्वे दोषस्योक्तत्वात् । अतिरिक्तस्यासिद्धत्वात् , सिद्धत्वे वा तदेव मन:स्थानेऽभिषिच्यताम् । योगशास्त्रबोधितप्रत्याहारान्यथाऽनुपपत्त्या च मनोऽणत्वसिद्धिर्शित केचित् ।
. न च मनोणुत्वपक्षेऽणुमात्रदेशतापत्तिः सुखादीनामिति वाच्यम् । यावदवच्छेदेनासमवायिकारणं वर्तते तावदवच्छेदेन कार्यमपि । न तु तावदवच्छेदेनैवेति नियममङ्गीकुर्मः । न च द्वित्रिच्छिन्नगोधाशरीरचलनाऽनुपपत्तिः मनोन्तरप्रवेशस्यादृष्टयशादुपपत्तेः । समयसौक्षम्यानाकलनाद्वा तत्र यौगपद्याभिमानः । वेगवत्प्राणपक्नसंयोगात् चलनोपपत्तिरिति केचित् । एवमणुत्वे सिद्धे पूर्वन्यायेन पृथिव्यादिभिन्नत्वे च स्पर्शकल्पनायां कल्पनागौरवमेव बाधकमिति" न किञ्चिदनुपपन्नम् ॥श्री ७॥ .
१. Pn+my read सुखाद्युपलब्धिः । २ Pn reads धारावाहिकज्ञानक्रमवत् । ३. P reads पूर्वपूर्व ज्ञाने चोत्तरस्य : १. P reads बुभुत्सापगमे वा । ५. M adds वाच्यम् । ६ P+I. O. add अश। ७. Pn rea !s अननुगतत्वात् । ८. P reads ० देशवृत्तिता । ९. P reads च instead of तु । १०. MI reads चलनान्यथानुपपत्तिः । ११. P misses एच बाधकम् । १२. I. O. adds इति मनोऽणुत्ववादः
समाप्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org