Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 62
________________ आधेयशक्तिवादः । . २५ यावत्त्वस्यापि गौरवकरत्वेनानवच्छेदकत्वात् । यद्वा पुरुषसमवेतेनापि संस्कारेण स्वरूपसम्बन्धात् व्रीहेः कर्मतोपपत्तिः । किश्च किं तत्कर्मत्वं यस्यात्रानुपपत्तिः । न तावत् क्रियाफलभागत्वं घटं जानाति देवदत्त इत्यादौ ज्ञानलक्षणक्रियाजन्य संस्कारफलभा गित्वेनात्मनोऽपि कर्मत्वप्रसङ्गात् । न चान्यसमवेतक्रियाफलभागित्वं कर्मत्वम् । आत्मानमात्मना जानामीत्यत्रात्मनोऽकर्मत्वप्रसङ्गात् । न चात्मनोऽत्रामुख्यं कर्मत्वं, मुख्यत्वे बाधकाभावात् । तस्मात् करणव्यापारविषयकारक - त्वादिकमन्यत् कर्म लक्षणं वाच्यम् । तथा च व्रीहेः प्रोक्षणफलानाश्रयत्वेऽपि न कर्मत्वानुपपत्तिः । कामिनीचरणाघातव्यापारत्वेन वृक्षस्यातिशयकल्पनमपि न वाच्यम् । चरणाघातजनिताध्यात्मिकवायुक्रियाजनित भागान्तराकर्षणेन वृक्षोपष्टम्भादपि तदुपपत्तेः । चरणाघातेन तत्तत्कर्तृसमवेतमपूर्वमुत्पद्यत इति केचित् । न चाऽन्यस्य शुद्धिपदार्थस्य निर्वक्तुमशक्यतया कांस्यादौ भस्मादिमँयोज्यातिशयकल्पनमिति युक्तमेतत् तत्तत्समयावच्छेदेन भस्मादिसंयोग प्रतियोगि कानादिसंसर्गाभावविरहस्य तत्समानकालीनचाण्डालादिस्पर्शादिप्रतियोगिकयावदनादिसंसर्गाभावसमानाधिकरणस्य शुद्धिपदार्थत्वात् । " एवमेतद्विपर्ययेणाशुद्धिपदार्थोऽपि निर्वक्तव्यः । यद्वा शुद्धिजनकत्वाभिमतेनाम्लादिसंयोगेन ताम्रादौ तत्तद्देवतासन्निधिरेव क्रियते, स एव शुद्धिपदार्थः । अस्पृश्यसम्बन्धेन तु तद्विरहः । स एव चाशुद्धिपदार्थः । अन्ये तु भस्मादिप्रयोक्तृनिष्ठ एव संस्कारस्तेन जन्यते । स एव शुद्धिपदार्थः इति । अशौचापादकेन तदपनयो जन्यते स एवाशुद्धिपदार्थः इत्याहुः । प्रतिमादौ तु प्रतिष्ठादिना देवतासन्निधिरेव क्रियते । स चाऽहङ्कारममकालक्षणः । तथा घटादावपि शुद्धप्रतिज्ञादिकमपेक्ष्य प्रतिष्ठादिविधिना जयप्रयो htभूतो धर्मो जन्यते । 'अविशुद्धिमपेक्ष्य भङ्गप्रयोजकोऽधर्मो जन्यते । एवं परमाणुगत पाकजविशेषगुणात् तत्तत्पार्थिव कार्यविशेषो द्रष्टव्यः । जलादौ तु अष्टादिनिमित्तभेदात् कार्यवैचित्र्यमूहनीयम् । न च शक्तिव्यवहारान्यथाऽनुपपयातिरिक्तपदार्थकल्पनम् कारणत्वेनैवोपपत्तेरित्युपरम्यते ||६|| ||" O. १. Mg reads आत्मनात्मानं । २. P reads (अ) मुख्य कर्मत्वं । ३. P+I. add कामिनी० 1 ४. P reads भस्मसंयोगंप्रयोज्य० ५. Mg+P_drop अपि । ६. Preads स्नानादियोगेन तन्त्रादौ । ७. Mg reads • ममकारप्रवाह - लक्षणः । ८. P reads अशुद्धप्रतिज्ञामपेक्ष्य | ९. P. reads पाकजगुणविशेषात्, M1 reads पाकविशेषात् । १०. P adds here मन्त्रिते विशेषः । ११. I. O adds इति शक्तिवादः. But P has इति भाधेयशक्तिवादः । 8 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270