________________
आधेयशक्तिवादः ।
. २५
यावत्त्वस्यापि गौरवकरत्वेनानवच्छेदकत्वात् । यद्वा पुरुषसमवेतेनापि संस्कारेण स्वरूपसम्बन्धात् व्रीहेः कर्मतोपपत्तिः ।
किश्च किं तत्कर्मत्वं यस्यात्रानुपपत्तिः । न तावत् क्रियाफलभागत्वं घटं जानाति देवदत्त इत्यादौ ज्ञानलक्षणक्रियाजन्य संस्कारफलभा गित्वेनात्मनोऽपि कर्मत्वप्रसङ्गात् । न चान्यसमवेतक्रियाफलभागित्वं कर्मत्वम् । आत्मानमात्मना जानामीत्यत्रात्मनोऽकर्मत्वप्रसङ्गात् । न चात्मनोऽत्रामुख्यं कर्मत्वं, मुख्यत्वे बाधकाभावात् । तस्मात् करणव्यापारविषयकारक - त्वादिकमन्यत् कर्म लक्षणं वाच्यम् । तथा च व्रीहेः प्रोक्षणफलानाश्रयत्वेऽपि न कर्मत्वानुपपत्तिः । कामिनीचरणाघातव्यापारत्वेन वृक्षस्यातिशयकल्पनमपि न वाच्यम् । चरणाघातजनिताध्यात्मिकवायुक्रियाजनित भागान्तराकर्षणेन वृक्षोपष्टम्भादपि तदुपपत्तेः । चरणाघातेन तत्तत्कर्तृसमवेतमपूर्वमुत्पद्यत इति केचित् । न चाऽन्यस्य शुद्धिपदार्थस्य निर्वक्तुमशक्यतया कांस्यादौ भस्मादिमँयोज्यातिशयकल्पनमिति युक्तमेतत् तत्तत्समयावच्छेदेन भस्मादिसंयोग प्रतियोगि कानादिसंसर्गाभावविरहस्य तत्समानकालीनचाण्डालादिस्पर्शादिप्रतियोगिकयावदनादिसंसर्गाभावसमानाधिकरणस्य शुद्धिपदार्थत्वात् ।
"
एवमेतद्विपर्ययेणाशुद्धिपदार्थोऽपि निर्वक्तव्यः । यद्वा शुद्धिजनकत्वाभिमतेनाम्लादिसंयोगेन ताम्रादौ तत्तद्देवतासन्निधिरेव क्रियते, स एव शुद्धिपदार्थः । अस्पृश्यसम्बन्धेन तु तद्विरहः । स एव चाशुद्धिपदार्थः । अन्ये तु भस्मादिप्रयोक्तृनिष्ठ एव संस्कारस्तेन जन्यते । स एव शुद्धिपदार्थः इति । अशौचापादकेन तदपनयो जन्यते स एवाशुद्धिपदार्थः इत्याहुः । प्रतिमादौ तु प्रतिष्ठादिना देवतासन्निधिरेव क्रियते । स चाऽहङ्कारममकालक्षणः । तथा घटादावपि शुद्धप्रतिज्ञादिकमपेक्ष्य प्रतिष्ठादिविधिना जयप्रयो
htभूतो धर्मो जन्यते । 'अविशुद्धिमपेक्ष्य भङ्गप्रयोजकोऽधर्मो जन्यते । एवं परमाणुगत पाकजविशेषगुणात् तत्तत्पार्थिव कार्यविशेषो द्रष्टव्यः । जलादौ तु अष्टादिनिमित्तभेदात् कार्यवैचित्र्यमूहनीयम् । न च शक्तिव्यवहारान्यथाऽनुपपयातिरिक्तपदार्थकल्पनम् कारणत्वेनैवोपपत्तेरित्युपरम्यते ||६|| ||"
O.
१. Mg reads आत्मनात्मानं । २. P reads (अ) मुख्य कर्मत्वं । ३. P+I. add कामिनी० 1 ४. P reads भस्मसंयोगंप्रयोज्य० ५. Mg+P_drop अपि । ६. Preads स्नानादियोगेन तन्त्रादौ । ७. Mg reads • ममकारप्रवाह - लक्षणः । ८. P reads अशुद्धप्रतिज्ञामपेक्ष्य | ९. P. reads पाकजगुणविशेषात्, M1 reads पाकविशेषात् । १०. P adds here मन्त्रिते विशेषः । ११. I. O adds इति शक्तिवादः. But P has इति भाधेयशक्तिवादः ।
8
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org