________________
(६) आधेयशक्तिवादः। नन्वस्त्वाधेयशक्तिः । तथाहि व्रीहीन् मोक्षतीत्यादौ व्रौद्यादीनां प्रोक्षणादौ कर्मता' प्रतीयते । सा च तत्फलाधारत्वव्यतिरेकेणानुपपद्यमाना वीयादेस्तत्फलाधारतामवगमयति, कथं वान्यथा प्रोक्षितस्यैव व्रीहेरुत्तरत्रोपयोगः । प्रोक्षणस्य चिरध्वस्तत्वात् । न च प्रोक्षणमुपलक्षणं ध्वंसव्यापारकं वा यागादावपि तथाभावप्रसङ्गात् । प्रोक्षणस्य पुरुषसमवेतसंस्कारजनकत्वे व्रीहिकर्मतानुपपत्तरुक्तत्वात् । न च संस्कारेण परम्परासम्बन्धात् कर्मतोपपत्तिः । साक्षात्सम्बन्धबाधे परम्परासम्बन्धस्य कल्पनाहत्वात् । अतिप्रसङ्गाच्च ।
किञ्च, कामिनीचरणाघातात् पुष्पोदयदर्शनादाघातजन्यातिशयाश्रयत्वमशोकस्य कल्पनीयम् । तथा कांस्यादौ भस्मादिसंयोगेनावश्यमैतिशयाश्रयत्वं स्वीकर्तव्यम् । अन्यस्य तत्र शुद्धिपदार्थस्य निवक्तुमशक्यत्वात् । एवं प्रतिमादावपि प्रतिष्ठादिप्रयोज्यमतिशयाधानमूहनीयम् । किञ्च, कलमादेरापरमाण्वन्तभङ्गात् परमाणुष्ववान्तरजातेरभावात् कथमतिशयाधानमन्तरेण तेभ्यः कार्यविशेषो जायत इति ॥
अत्रोच्यते । प्रोक्षणजन्यसंयोगरूपफलभागित्वेनैव व्रीहिकर्मतोपपत्तौ न तदर्थ व्रीहिनिष्ठातिशयकल्पनम्, न च संयोगस्य न प्रोक्षणफलत्वम् , उत्तरसंयोगावच्छिन्नद्रवद्रव्यकर्मविशेषस्यैव प्रोक्षणपदार्थत्वादिति वाच्यम् । ग्राम गच्छतीत्यादावपि तथात्वेन ग्रामकर्मत्वानुपपत्तिप्रसङ्गात् । तस्माद्यथा तत्र गमनविशेषणत्वेऽपि संयोगस्य तदाधारतया ग्रामकर्मत्वं भवति तथाऽत्रापि वाच्यम् । कथमन्यथा सक्तून् प्रोक्षतीत्यादौ लौकिकमोक्षणे सक्तूनां कर्मत्वम् ।
किञ्च, व्रीहेः प्रोक्षणजन्यसंस्काराश्रयत्वे कल्प्यमाने प्रतिव्रीहि भिन्नाः संस्काराः कल्पनीयास्ताववृत्तिरेक एव वा । न तावदाद्यः। गौरवप्रसङ्गात् । न द्वितीयः। किश्चिद्वीहिनाशे तन्नाशस्यावश्यकत्वेन वीडन्तरस्याऽप्युत्तरत्रोपयोगो" न स्यात् । न च यावदाश्रयनाशात् तन्नाश इति युक्तम् ।
१. P+I.O. read प्रोक्षणादिकर्मता । २. P reads ध्वंसव्यापारकत्व । ३ P adds च । ४. P reads साक्षात्सम्बन्धाबाधे....कल्पनानहत्वात् । ५. P adds अस्य । ६. P+mg add oबोज । ७. Pn omits तेभ्यः, m adds एव । ८. my drops भवति । ९. P adds इति । १०. mi reads प्रतिव्रीहिव्यक्तिभिन्नाः, P reads भिन्नसंस्काराः । ११.P reads प्रयोगः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org