________________
(७) मनोऽणुत्ववादः ।
;
मनस्त्वं परमाणुवृत्ति न वा । मूर्त्तत्वं निःस्पर्शवृत्ति न वा । 'अणुत्वं वा तथा न वा । यद्वा स्पर्शवत्त्वं अणुत्वसमानाधिकरणात्यन्ताभावप्रतियोगि न वेति विप्रेतिपत्तेः संशयसम्भवे विचारावतारः । सुखप्रतीतिः सकरणिका क्रियात्वात् रूपप्रतीतिवदिति प्रमाणं न समीचीनं शरीरादिना सिद्धसाधनात् । नाप्यसाधारणकरणिकेनि साध्ये निर्देशेऽपि मर्नेः सिद्धिः । निःस्पर्शत्वाद्यनुल्लेखितया चार्थान्तरत्वात् । नापीन्द्रियकरणिकेति साध्यनिदेशे' तत्सिद्धिः । त्वचैव सिद्धसाधनात् अतिरेकेऽप्यणुत्वाद्यसिद्धिः विभ्रुत्वेनैवोपपत्तेः। सर्वदा स्पर्शरहितद्रव्यत्वादेर्विभुत्वसाधकस्य विद्यमानत्वात् । न च विभुत्वपक्षे व्यासङ्गानुपपत्तिः । व्यासङ्गस्यैव ज्ञानान्तरोत्पत्तौ प्रतिबन्धकत्वात् । एकदाऽनेकक्रियाजनकत्वानुपपत्तेश्च । न च सुखादिप्रादेशिकत्वानुपपत्तिः, विषयसम्बन्धप्रादेशिकत्वेनैवोपपत्तेः । मनोऽणुत्वपक्षेऽपि तस्यैवोपजीव्यत्वात् । अन्यथाऽणुमात्रदेशता सुखस्य स्यात् । सर्वाङ्गीणमेव सुखमुत्पते । बुभुत्साया एव व्यासङ्गे नियामकत्वमन्यस्य वा कस्यचिन्नियामकत्वम् । कथमन्यथा मनोऽणुत्वपक्षे वीणानादाकर्णनव्यासक्तस्य न पुनर्भेरीरवाकर्णनमिति नियमः । कथं वा द्वित्रिच्छिन्नगोधाशरीरभागे चेष्टोद्गमः प्रयत्नवदात्मनः संयोगस्य कारणत्वात्, तस्य च मनस्संयोगं विनाऽनुपपत्तेः ॥७॥ छ ॥
अत्रोच्यते । व्यासक्तस्य देवदत्तस्य घटसंयुक्तं त्वगिन्द्रियं घटसाक्षात्कारकारण किञ्चिद्द्रव्यसंयोगरहितं तदा घटसाक्षात्काराजनकत्वात् त्वगिन्द्रियासंयुक्त पटवदिति तावदव्यापक करणसिद्धि: । तस्य सावयवत्वकल्पनायां गौरवमित्यनवयवत्वे व्यवस्थिते न च तत् स्पर्शवत्, स्पर्शवतो गन्धग्राहकस्य प्राणत्वप्रसङ्गेन रूपाद्यग्राहकत्वप्रसङ्गात् । एवं तैजसत्वे चाक्षुषत्व - प्रसङ्गेनापि गन्धाग्राहकत्वमापादनीयम् ।
-
मनसः
१. This is missing from here to नवेति inPI. O +Mg1 २. P_• reads विप्रतिपत्तिसम्भवे । ३. Mg reads सिद्धसाधनत्वात् ४ P reads सिद्धिः । ५. Mg drops निर्देशे । ६. Pn reads इष्यमाणत्वात् ७. P reads क्रियः प्रयोजकत्व ० । ८. P reads नियामकत्वात् । ".. P reads fafafara शरीरे । १०. P reads ( आ ) त्मसंयोगस्य । ११ P reads मनोयोग । १२. P reads प्राणत्वप्रसङ्ग रूपाद्यग्राहकत्वप्रसङ्गात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org