________________
३२
न्यायसिद्धान्तदीपे णीयम्। एवंभूतं च तत्त्वज्ञानं, तथा च किमिति तेन न जननीयम् । इदमेव च तुल्यकक्षतया समुच्चयो नेष्ट इत्यनेन विवक्षितम् । एवंभूतसमुच्चये न नो विवादः।
किच, यमनियेमादेः कर्मविशेषस्य तत्त्वज्ञानानुकूलत्वं तावच्छब्दादेवावगम्यते, तथा च विवादास्पदीभूतस्यापि कर्मणस्तद्द्वारेणैव जनकत्वं कल्प्यते, लाघवात् । कचिन्मोक्षफलत्वेन श्रुतस्यापि वाराणसीप्रायणादेस्तत्त्वज्ञानोत्पादैकत्वस्य शब्दादेवावगम्यत्वात् । तेषां च कर्मणां तत्त्वज्ञाने जनयितव्ये सत्त्वशुद्धिरेवावान्तरव्यापार इति न तदर्थमपूर्वकल्पनम् । न च वाराणसीप्रायणादिव्यतिरेकेण तत्त्वज्ञानस्याऽप्यनुत्पत्तिप्रसङ्गः । अपवर्गेऽप्यस्य समानत्वादत्रावान्तरविशेषकल्पनमिति यदि प्रकृतेऽपि तुल्यम् । श्रुतिरपि तत्त्वज्ञानकर्मणोः कारणतामात्रं बोधयति, न तु तुल्यकक्षतया समुच्चय इति संक्षेपः ॥९॥
१P drops यमनियमादेः । २. P reads विवादास्पदीभूतकर्मणः । ३. P+M, read (3)त्पादकस्य । १. P+M, read .(अ)वगतत्वात् । ५. M, reads ज्ञानकर्मणोः । ६. P adds इति ज्ञानकर्मसमुच्चयवादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org