________________
(३) कारणतावादः। 'किं तत्कारणत्वं कार्यनियतपूर्ववत्तित्वं वा कार्यनियतपूर्ववर्तिजातीयत्वं वा । अनन्यथासिद्धनियतपूर्ववर्तित्वं वा कार्यसहभावे सत्येतदेव वा । सहकारिविरहप्रयुक्तकार्याभाववत्वं वा । अन्यद्वा । नाधः कुम्भकारपितुरपि कुम्भं प्रति कारणत्वप्रसङ्गात् । आकाशादेः कार्यमानं प्रति कारणत्वप्रसङ्गाच्च ।
किश्च पूर्ववर्तित्वं प्रागभावावच्छिन्नसमयवर्तित्वमिति चेत् , नै । तथा तयोरकारणत्वप्रसङ्गात् । न हि प्रागभावावच्छिन्ने समये प्रागभावो वर्त्तते, समये समयो वा । किञ्चैवं घटादिकं प्रति रासभोऽपि कारणं स्यात् । तस्यापि घटादिनियतपूर्वसमयवर्तित्वात् । न ह्यनादौ संसारे कस्यापि घटस्य पूर्व रासभो न वर्तते । अत एव नै द्वितीयः । आकाशादेरकारणत्वप्रसङ्गाच्च । न ह्याकाशादीनां तज्जातीयत्वेन कारणत्वमेकव्यक्तित्वेन तत्र जारभावात् । न च जातित्वमुपलक्षणम् । उपाधेरपि तदवच्छेदकस्याभावात् । न ह्याकाशादिकारणत्वं केनाप्यवच्छिद्यते ।
नापि तृतीयः । अनन्यथासिद्धत्वं ह्यन्यथासिद्धिविरहः अन्यथासिद्धिश्च प्रकारान्तरेणोत्पत्तिर्जप्तिर्वा । अन्यत्वं च कार्यापेक्षयाऽन्यापेक्षया वा । न तावदाधः। दण्डादेरेकारणत्वप्रसङ्गात् । न हि घटादिभिन्नप्रकारेण दण्डादेनर्नोत्पत्तिः। नित्यस्य कार्यमा कारणत्वप्रसङ्गाच्च । एवं ज्ञप्तिपक्षोऽपि निरस्तः । न द्वितीयः । यत्किञ्चिदपेक्षया प्रकारान्तरेणोत्पत्तिज्ञप्त्योः सर्वसाधारण्यात् ।
अनन्यथासिद्धयनिर्वचनादेव न चतुर्थोऽपि । तन्निर्वचने त्वनन्यथासिद्धनियतपूर्ववर्तित्वेन तत्त्वे शेषवैयर्थ्यात् । न च कुम्भं प्रति कुम्भकारपितुर्रपि कारणत्वव्युदासाथ सहभावोऽपि विशेषणमिति वाच्यम् । अनन्यथासिद्धयैव तन्निरासात् । कथमन्यथा घटसहभावेऽपि न कपालरूपादेः कारणत्वम् । कथं वा कार्याऽसहभूतस्य यागादेः कारणत्वम् । न च व्यापारद्वारा
१. I0. adds कारणत्वविवेचना । २. M, drops न; P drops इति चेत् । ३. M, reads नापि । ४. P reads कारणत्वावधारणम् । ५. P adds भपि । ६. P reads कार्यमानं प्रति । ७. M1 drops अपि । ८. Ma drops अपि । ९. M+I.O. reads व्युदासाय । १०. P drops अपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org