________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे
सूत्रम् — जे भिक्खू आगंतांगारेसु वा आरामागारेसु वा गहावइकुलेसु वा परियावस हेसु वा कोहलप डियाएपडियागया समाणा अण्णउत्थिया वा गारत्थिया वा असणं वा, पाणं वा, खाइमं वा साइमं वा ओभासिय- ओभासिय जायइ, जायंतं वा साइज्जइ ॥ सू० ६ ॥
छाया - यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा कौतूहलप्रतिज्ञया प्रत्यागतान् सतः - अन्ययूथिकान वा गार्हस्थिकान्, वा अशनं वा पानं वा खाद्य वा स्वाद्यं वा, अवमाच्याऽवभाष्य याचते, याचमानं वा स्वदते ॥ सू० ६ ॥
,
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगैतागारेसु वा' आगन्त्रागारेषु वा - धर्मशालासु 'आरामागारेसु वा' आरामागारेषु वा 'गाहावइकुलेसु वा' गाथापति - कुलेषु वा 'परियावस वा' पर्यावसथेषु वा 'कोहलपडियाए' कौतूहलप्रतिज्ञया 'पडियागया समाणा' प्रत्यागतान् सतः - - स्थितान् आगन्तुकादिगृहेषु केचन - स्वभावतः केचन-दर्शनार्थम्, केचन कौतुकेन, केचन - धर्मश्रवणार्थम् केचन संशयनिराकरणार्थं समागतास्तान् । कांस्तान् ? तत्राह - 'अण्णउत्थिया' इत्यादि । 'अण्णउत्थिया' अन्ययूथिकान्- तीर्थान्तरीयान् वा तथा 'गारत्थिया वा' गार्हस्थिकान्- गृहस्थान् 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनादिचतुर्विधाहारम्, 'ओभासिय - ओभासिय जायर' अवभाष्याऽवभाष्य उच्चैरुच्चार्य याचनां करोति, तथा–'जायंतं वा साइज्जइ' याचमानं वा स्वदते स प्रायश्चित्तभाग् भवति । पूर्वसूत्रे पुरुषमधिकृत्यैकवचनप्रयोगः, अत्र बहुवचनस्य प्रयोग इत्यनयोर्भेदः ॥ सू० ६ ॥
सूत्रम् — जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा कोऊहलडियाए पडियागयं समाणं अण्णउत्थिणि वा गारत्थिणि वा असणं वा पाणं वा खाइमं वा साइमं वा ओभासि - ओभासिय जाय जायंतं वा साइज्जइ ॥ सू० ७ ॥
छाया -यो भिक्षुः आगन्त्रागारेषु वा भारामागारेषु वा गाथापतिकुलेषु बा पर्यावसथेषु वा कौतूहलप्रतिज्ञया प्रत्यागतां सतीं अन्ययूथिकीं वा गार्हस्थिक वा, अशनं वा पानं वा खाद्यं वा स्वाद्य वा अवभाष्याऽवभाष्य याचते, याचमानं वा स्वदते ॥ सू० ७ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारे वा' आगन्त्रागारेषु वा 'आरामागारेसु वा' आरामागारेषु वा 'गाहावइकुलेसु वा' गाथापतिकुलेषु वा 'परिया
For Private and Personal Use Only