________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६
निशीथसूत्रे
बा स्वदते || सू० १९ ॥ यो भिक्षुः अन्ययूथिकानां वा गृहस्थानां वा प्रश्नाप्रश्नं करोति कुर्वन्तं वा स्वदते ॥ सू० २०॥ यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा प्रश्नं कथयति कथयन्तं वा स्वदते ॥ सू० २१ ॥ यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा प्रश्नाप्रदन . कथयति कथयन्तं वा स्वदते || सू० २२|| यो भिक्षुरन्ययूथिकानां वा गृहस्थानां घा अतीतं निमित्तं कथयति कथयन्तं वा स्वदते सू० २३ ।। यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा प्रत्युत्पन्नं निमित्तं कथयति कथयन्तं वा स्वदते ॥ सू० २४|| यो भिक्षुरन्ययूथिकानां
गृहस्थानां वा आगमिष्यत् निमित्तं कथयति कथयन्तं वा स्वदते ।। सू० २५ ॥ यो भिक्षु न्यूथिकानां वा गृहस्थानां वा लक्षणं कथयति कथयन्तं वा स्वदते ॥सू० २६ । यो मिक्षुरम्यूथिकानां वा गृहस्थानां वा व्यज्जनं कथयति कथयन्तं वा स्वदते || सु०२७|| यो भिक्षुरन्ययूथिकान वा गृहस्थानां वा स्वप्नं कथयति कथयन्तं वा स्वदते ॥सू० २८|| यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा विद्यां प्रयुक्ते प्रयुञ्जानं वा खदते ॥ सू० २९|| यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा मन्त्रं प्रयुक्ते प्रयुज्जानं वा स्वदते ॥सू० ३०|| यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा योगं प्रयुङ्क्ते प्रयुआनं वा स्वदते || सू० ३१||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियाण वा' अन्ययूथिकानां वा 'गारत्थियाण वा' गृहस्थानां वा 'कोउगकम्मं करेइ ' कौतुककर्म करोति, तत्र कौतुकं - दृष्ट्यादिदोषनिवारणार्थं स्नानादिकमौषधादिकं वा करोति, तथा च यः श्रमणः परतीर्थिकानां कौतुककर्म करोति अर्थात् श्मशानचत्वरादिषु स्नानं कारयति अथवा कोsपि तापसादिकः गृहस्थो वा ज्वरशूलादिरोगेण ग्लानो जातः तस्य ज्वरादि रोगशान्त्यर्थं सचित्तमचित्तं वा औषधादिकमानीय ददाति येन तस्य रोगः सब एब शान्तो भवति स नीरोगतां लभते तदेतत् श्मशानादिस्नानमौषघादिदानं च कौतुककर्म कथ्यते । अथवा कुतुकस्य भावः कौतुकं कुतूहलता गृहस्थादीनां मनोरञ्जनाय क्रियमाणं कर्म कौतुककर्म तथा 'करेंतं वा साइज ' कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० १७॥ एवम् 'भूइकम्मं करेइ' भूतिकर्म - शरीरादिरक्षार्थं भस्म पोट्टलिकाभिमन्त्रणरूपं करोति || सू० १८ || 'पसिणं करे' प्रश्नं करोति - अन्यतीर्थिकादिनिमित्तं दर्पणादौ देवाद्याह्नानं कृस्वा शुभाशुभफलप्रच्छनरूपं करोति ।। सू० १९ ॥ 'पसिणापसिणं करेइ' प्रश्नप्रश्नं करोति -विद्यामन्त्रिताघण्टायाः कर्णमूले वादनेन तत्र देवताऽवतीर्य पृष्टस्य प्रश्नस्य विषये सा पुनरपि प्रश्नं करोति यत्तव पूर्वमेवमासीत् न वा?' इति एकस्मिन् प्रश्ने द्वितीयप्रश्नकरणम् एवं प्रश्ने प्रश्नकरणरूपं प्रश्नप्रश्नमन्यतीर्थिकगृहस्थनिमित्तं करोति कुर्वन्तं वा स्वदते ॥ सू० २०|| 'पसिणं कहे ' प्रश्नं कथयति अन्यतीर्थिकगृहस्थेम्यः दर्पणाद्यवतीर्णदेवता कथित शुभाशुभफलरूपमुत्तरं कथयत. ।। सू० २१ । एवम् 'पसिणापसिणं कहेइ' प्रश्न प्रश्नं कथयति प्रश्नों परिप्रश्नस्योत्तरं कथयति ॥२२॥ 'तीयं निमित्तं कहेइ' अतीतं निमित्तं कथयति अन्यतीर्थिक गृहस्थेभ्य: 'तवातीतकाले
1
For Private and Personal Use Only