________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०६
निशीथसत्रे जलमर्यादायां गमनशीलाम् नावम् नौकाम् 'दुरूहई' दूरोहति तादृशनौकायामधिरोहणं करोति कारयति वा तथा 'दुरूहंतं वा साइज्जई' दूरोहन्तं वा नौकामधिरोहन्तम् अधिरोहणं कुर्वन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १२॥
सूत्रम्-जे भिक्खू णावं आकसावेइ खेवावेइ रज्जुणा कटेणं वा कड्ढावेइ आकसावंतं वा खेवावंतं वा कड्डावंतं वा साइज्जइ ।। सू०१३ ॥
छाया-यो भिक्षुः नावमाकर्षयति क्षेपयति रज्ज्वा काष्ठेन वा कर्षयति, आकर्षयन्तं वा क्षेपयन्तं वा कर्षयन्तं वा स्वदते ॥ सू• १३ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णावं' नावं नौकां जले संतरन्ती जले निमजन्ती वा 'आकसावेई' आकर्षयति-समीपे आनयितुं प्रेरयति 'खेवावेइ क्षेपयति चालनकाष्ठेन अन्यद्वारा चाल यति, तथा 'रज्जुणा' रज्ज्वा 'कडेण वा' काष्ठन वा यष्टयादिना 'कहढावेई' कषयति-जलाद्वहिनिष्कासयति, एवम् आकप्रयन्त क्षेपयन्तं रज्ज्वा काष्ठेन वा नावं कर्षयन्तं श्रमणान्तरम् 'साइज्जइ' स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १३ ॥
सूत्रम्-जे भिक्खु णावं अलित्तएण वा दंडेण वा पफिडिएण वा वंसेण वा वलेण वा वाहेइ वाहेंतं वा साइज्जइ ॥सू० १४॥
छाया---यो भिक्षुः अरित्रकेण वा दण्डेन वा पप्फिडिपण वा वंशेन वा वलेन था वाहयति वाहयन्तं वा स्वदते ॥ सू० १४ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णावं' नावम्-नौकाम् 'अलित्तएण वा' अरित्रकेण वा-नौचालकदण्डविशेषेण 'दंडेण वा' दण्डेन वा सामान्यदण्डविशेषेण 'पप्फिडिएण वा' 'पम्फिडिय' इति नौचालकोपकरणवाचको देशी शब्दः तेन वा 'बसेण वा' वंशेन वा-वंशयष्ट्या वा 'वलेन वा' वला इति प्रसिद्धन पृथुलकाष्ठेन वा, एतैरुपयुक्तनौकाचालकसाधनैः यः श्रमणः श्रमणी वा नौकाम् 'वाहेइ' वाह. यति- चालयति स्वयं परद्वारा वा चालयति तथा 'वाहेंतं वा साइज्जई' वाहयन्तं वा नौकां चालयन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स 'प्रायश्चितभागी' भवतीति ।। सू० १४ ॥
सूत्रम्-जे भिक्खू णावाउदगभायणेण वा पडिग्गहेण वा मत्तएण वा णावाउसिंचणेण वा णावं उस्सिंचइ उस्सिचंतं वा साइज्जइ ।
For Private and Personal Use Only