________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे सूत्रम्-जे भिक्खू भेरीसदाणि वा पडहसदाणि वा मुरयसदाणि वा मुइंगसहाणि वा नंदिसदाणि वा झल्लरिसदाणि वा वल्लरिसदाणि वा डमरुगसहाणि वा मदलसदाणि वा सदुयसहाणि वा पएससदाणि वा गोलुंकि सहाणि वा अन्नयराणि वा तहप्पगाराणि वितताणि सदाणि कण्णसोयपडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ । सू० २५३ ॥
छाया-यो भिक्षुः मेरीशब्दान् वा पटाशब्दान् पा मुरजशब्दान् वा मृदङ्गशब्दान् वा नन्दिशब्दान् वा झल्लरीशब्दान् वा वल्लरीशब्दान् वा डमरुकशब्दान् वा मर्दल शब्दान् वा सदुकशब्दान् वा प्रदेशशब्दान् वा गोलुकीशब्दान् वा अन्यतरान् वा तथाप्रकारान् विततान् शब्दान् कर्णश्रोतःप्रतिक्षया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'भेरीसहाणि वा. मेरीशब्दान् वा-दुन्दुभिशब्दान् वा 'पडहसहाणि वा पटहशब्दान् वा 'ढोल' इति लोकप्रसिद्धशब्दान् 'मुरयसहाणि वा मुरजशब्दान् वा-पटहविशेषशब्दान् वा 'मुइंगसदाणि वा मृदङ्गशब्दान् वा 'नंदिसदाणि वा. नन्दिशब्दान वा-यत्र द्वादश वाद्यानि सहैव वाद्यन्ते तादृशो वाद्यविशेषो नन्दि रिति कथ्यते, तत्सम्बन्धिशब्दान् वा 'मल्लरीसहाणि वा' झल्लरीशब्दान् वा, तत्र 'झल्लरी:- 'झालर' इति लोकप्रसिद्धा तस्याः शब्दान् 'वल्लरि सहाणि वा' वल्लरीशब्दान् वा 'डमरुगसहाणि वा. डमरुकशब्दान् वा-'डमरु' इति लोकप्रसिद्धशब्दान् 'मदलसदाणि वा मर्दलशब्दान् वा-मर्दल:-तन्नामको वाधविशेषः, तच्छब्दान् 'सदयसदाणि वा सदुकशब्दान् वा वाद्यविशेषशब्दान् वा 'पएससहाणि वा' प्रदेशशब्दान् वा 'गोलकिसहाणि वा' गोलकीशब्दान् वा-गोलुङ्कीनामको वायविशेषस्तच्छन्दान् वा तथा 'अन्नयराणि वा' अन्यतरान् अन्यान् वा 'तहप्पगाराणि वा' तथाप्रकारान्-पूर्वोक्तप्रदर्शित शब्दसदृशान् अन्यानपि अनेकप्रकारान् ‘वितताणि सदाणि' विततान् शब्दान्-विततजातीयवादिसमुत्थान शब्दान् 'कण्णसोयपडियाए कर्णश्रोतःप्रतिज्ञया-कर्णेन्द्रियेण श्रवणप्रतिज्ञया - कर्णाभ्यां श्रवणेच्छया 'अभिसंधारेइ' अभिसंधारयति-श्रोतुं मनसि निश्चिनोति तथा 'अभिसंधारेत वा साइज्जई' अभिसंधारयन्तं वा श्रमणान्तरं स्वदते-अनुमोदते सा प्रायश्चित्तभागी भवति ॥२५३।। .. सूत्रम्--जे भिक्खू तालसदाणि वा, कंसतालसदाणि वा लित्तियसदाणि वा गोहियसदाणि वा मकरियसदाणि वा कच्छभीसदाणि वा महइसदाणि वा सणालियासदाणि वा वलियासदाणि वा अन्नयराणि वा
For Private and Personal Use Only