________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावरिः उ० १७ सू० १-४
तृणादिमालिका करण धरणपरिभोगनिषेधः ३८३
अवचूरि :- तृणादिपाशजातेन - तृणमुञ्जादिना निर्मितेन पाशजातेन केनापि प्रकारेण पाशेन दवरिकया त्रसाणां बन्धमोचनं बन्धनं मोचनं च कौतूहलेन कुतूहलबुद्धया विनोदहास्याद्यर्थ नो कुर्यात्, किन्तु दयार्थं दयानिमित्तं बन्धनं मोचनं च न निषिध्यते जलाग्न्यादितो रक्षणार्थं बन्धनस्य मोचनस्य च निषेधो भगवता न कृतः, अतएव 'कोऊहलवडियाए' इति सूत्रे कथितम् । सू०२ |
सूत्रम् — जे भिक्खू कोउहल्लवडियाए तणमालियं वा मुंजमालियं वा भिडमालियं वा मयणमालियं वा पिच्छमालियं वा दंतमालियं वा सिंगमालियं वा संखमालियं वा हड्डमालियं वा कट्टमालियं वा पत्तमालियं वा पुप्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा करेs करेंतं वा साइज्जइ ॥ सू० ३ ॥
छाया - यो भिक्षुः कौतूहलप्रतिज्ञया तृणमालिक वा मुञ्जमालिकां वा भिण्डमाoिni ar मदनमालिकां वा पिच्छमालिकां वा दन्तमालिकां वा गृङ्गमालिकां वा शङ्खमाoिri वा अस्थिमालिकां वा काष्ठमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमाfoni वा बीजमालिकां वा हरितमालिकां वा करोति कुर्वन्तं वा स्वदते ॥ सू० ३ ॥
--
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कोउइल्लवडियाए' कौतूहलप्रतिज्ञया - आत्मनो विनोदाभिप्रायेण 'तणमालियं वा' तृणमालिकां वा, तत्र तृणानां - दर्भादितृणविशेषाणां मालिकां मालां करोति - तृणादिना मालां निर्माति 'मुंजमालियं वा' मुञ्जमालिकां वा- तृण विशेषरूपमुञ्जस्य मालिकां निर्माति 'भिंडमालियं वा' भिण्डमालिकां वा, भिण्ड : - वनस्पतिविशेषः तस्य मालाम् 'मयणमालियं वा' मदनमालिकां वा - मदनस्य 'मोम' इति लोकप्रसिद्धस्य मालाम् 'पिच्छमालियं वा' पिच्छमालिकां वा - मयूरादिपिच्छानां मालाम् 'दंतमालियं वा' दन्तमालिकां वा - गजादिदन्तानां मालाम् 'सिंगमालियं वा' शृङ्गमालिकां वा - हरिणमहिषादिशृङ्गाणां मालाम् 'संखमालियं वा' शङ्खमालिकां वा शङ्खानां मालाम् 'हड्डमालियं वा' अस्थिमालिकां वा महिष्याद्यस्नां मालाम्, 'कट्टमालियं वा' काष्ठमालिकां वा-तुलस्यादिकाष्ठानां मालाम् 'पत्तमालियं वा' पत्रमालिकां वा तुलस्यादिपत्रैर्निर्मितां मालाम् 'पुप्फमालियं वा' पुष्पमालिकां वा - चम्पादिपुष्पाणां मालाम् 'फलमालियं वा' फलमालिकां वा - अनेक प्रकार कफलानां मालाम् 'बीयमालियं वा' बीजमालिकां वा रुद्राक्षादिबीजानां मालाम् ' हरियमालियं वा' हरितमालिकां वा - हरितका यवनस्पतीनां सम्बन्धिनीं मालाम्, 'करेइ' करोति - संपादयति, तथा 'करेंतं वा साइज्जइ' कुर्वन्तं - तृणादिविविधवस्तूनां मालां कुर्वन्तं संपादयन्तं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गरदि का दोषा अपि भवन्ति ॥ सु० ३ ॥
For Private and Personal Use Only