________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णिभाष्यावधिः उ० १७ सू० २४८-२५१ फूत्कृतसचित्ताशनादिग्रहणनिषेधः ३९३ 'पत्तभंगेण वा' पत्रभङ्गेन वा-पत्रखण्डेन इत्यर्थः 'साहाए वा' शाखया वा-वृक्षावयवरूपया 'साहाभंगेण वा शाखाभङ्गेन-शाखाखण्डेनेत्यर्थः, 'पेहुणेण वा' मयूरपिच्छेन वा 'पेहुणहत्थेण वा मयूरपिच्छपुञ्जेन वा 'चेलेण वा' चेलेन वा-वस्त्रेण वा 'चेलकण्णेण वा चेलकर्णेन वा वस्त्रावयवेन वस्त्रखण्डेनेत्यर्थः, हत्थेण वा' हस्तेण वा-हस्तसञ्चान्तिवायुना 'फुमित्ता' फूत्कृत्य मुखेन फूत्कारं कृत्वा 'वीइत्ता' बीजयित्वा-व्यजनादिना शीतलीकृत्य 'आहटुं' आहृत्य-आनीय हस्ते गृहीत्वेत्यर्थः 'दिज्जमाणं' दीयमानम् 'पडिग्गाहेई' प्रतिगृह्णाति-स्वीकरोति तथा 'पडिग्गाइंतं वा साइज्जई' प्रतिगृहन्तं वा-चूल्ह्यादितोऽवतारितमन्युष्णमशनादिकं मुखादिवायुना बीजयित्वा--शीतलीकृत्य दीयमानमशनादिकं गृह्णन्तं श्रमणान्तरं स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति । तथा तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० २४८॥ ।
सूत्रम्-जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा अच्चुसिणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० २४९॥
छाया --यो भिक्षुरशनं वा, पानं वा, वाद्यं वा स्वायं अत्युष्णं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥ सू० २४९ ॥
चूर्णी--- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाचं वा 'साइमं वा' स्वाचं वा 'अच्चुसिणं' अत्युष्णम्-अत्यन्तोष्णं येन हस्तादि दह्यने तादृशमशनादिकं 'पडिग्गाहेई' प्रतिगृह्णाति-स्वीकरोति तथा 'पडिग्गाहें तं वा साइज्जई' प्रतिगृह्णन्तं वा श्रमणान्तरं स्वदते-अनुमोदते य प्रायश्चित्तभागी भवति । यतः- अत्युष्णग्रहणे वायुकायसंपातिमद्वीन्द्रियादीनां हिंसासद्भावात् संयमविराधना, हस्तादिदहनसद्भावादात्मविराधना च भवतीति तादृशाशनादिकं न ग्राह्यम् ।सू० २४॥
सूत्रम्--जे भिक्खू उस्सेइमं वा संसेइमं वा चाउलोदगं वा वारोदगं वा तिलोदगं वा तुसोदगं वा जवोदगं वा आयामं वा सोवीरं वाअंबकंजियं वा सुद्धवियडं वा अहुणाधोयं अणंबिलं अपरिणयं अवुक्कंतजीवं अविद्धत्थं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ।। सू० २५० ।।
छाया-यो भिक्षुः उत्सेकिम वा संसेकिम वा तण्डुलोदकं वा वारोदकं वा तिलोदकं वा तुषोदकं वा यवोदकं वा आचामं वा सौवीरं वा आम्रकाजिकं वा शुद्धविकटं वा अधुनाधौतम् मनाम्लम् अपरिणतम् अव्युत्क्रान्तजीवम् अविध्वस्तं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥ सू० २५० ॥
५०
For Private and Personal Use Only