________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्र चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा "अहाछंद' यथाछन्दम् पूर्वोक्तप्रकारकं 'वंदइ' वन्दते नमस्कारादिकं करोति कारयति वा 'वंदंतं का साइज्जई' यथाछन्दं वन्दमानं नमस्कारादिकं तथा तदीयगुणोत्कीर्तनादिकं च कुर्वाणं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८३॥
सूत्रम्-जे भिक्खू णायगं वा अणायगं वा उवासगं वा अणुवासगं वा अणलं पवावेइ पवावेतं वा साइज्जइ ॥ सू० ८४॥ - छाया- यो भिक्षुतिकं वा अज्ञातकं वा उपासकं वा अनुपासकं वा अनलं प्रवाजयति प्रवाजयन्तं वा स्वदते ॥सू० ८४॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णायगं वा' ज्ञातकं वा 'अणायगं वा' अज्ञातकं वा, तत्र ज्ञातकः स्वजनः पितृपुत्रपौत्रदौहित्रभ्रातृप्रभृतिः, अज्ञातकः अस्वजनः स्वजनभिन्नः, अथवा ज्ञातकः प्रज्ञायमानः परिचितः संसारावस्थायाः प्रव्रज्यावस्थाया वा, अज्ञातकोऽज्ञायमानः अपरिचितः, एतादृशम् तथा 'उवासगं वा' उपासकं श्रावकं वा 'अणुवासगं वा' अनुपासकं वा श्रावकभिन्नमन्यतीर्थिकं वा 'अणलं' अनलं तत्रालं पर्याप्तः न अलमिति अनलम् अपर्याप्तम्-प्रव्रज्यायोग्यगुणरहितम् अयोग्यमित्यर्थः यः प्रवाजनस्य योग्यो न भवति तादृशम् ‘पन्चावेइ' प्रव्राजयति दीक्षयति तथा 'पव्वातं वा साइज्जइ' प्रवाजयन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८४॥
सूत्रम्-जे भिक्खू णायगं वा अणायगं वा उवासगं वा अणुवासगं वा अणलं उवट्ठावेइ उवट्ठावेंतं वा साइज्जइ ॥ सू० ८५॥ . छाया-यो भिक्षुआतकं वा अज्ञातकं वा उपासकं वा अनुपासकं वा अनलमुपस्थापयति उपस्थापयन्तं वा स्वदते ॥सू० ८५॥ .. चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गायगं वा' ज्ञातकं परिचितं स्वजनं पुत्रभ्रातृप्रभृतिकम् 'अणायगं वा' अज्ञातकमपरिचितं स्वजनभिन्नं वा तथा 'उवासगं वा' उपासकं वा श्रावकं साध्वाराधकं 'अणुवासगं वा' अनुपासकं श्रावकभिन्नमन्यतीर्थिकं वा 'अणलं' अनलमपर्याप्तमयोग्यमित्यर्थः ‘उवट्ठावेई' उपस्थापयति-त्यक्तमहाव्रतं पुनर्महाव्रते आरोपयति छेदोपस्थापनीयचारित्रं ददाति 'उचढावेतं वा साइजई' उपस्थापयन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥सू०८५||
सूत्रम्--जे भिक्खू णायगेण वा अणायगेण उवासएण वा अणुवासएण वा अणलेण वेयावच्चं कारावेइ कारावेतं वा साइज्जइ ।। सू०८६॥
For Private and Personal Use Only