________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९०
निशीथसूत्रे
छाया - यो भिक्षुग्रहस्थानां वा
अन्यतीथिकानां वा शीतोदकपरिभोगेन हस्तेन वा मात्रकेण वा दर्या वा भाजनेन वा अशनं वा पानं वा खाद्यं वा स्वाद्य वा प्रतिगृह्णाति प्रतिगृह्वन्तं वा स्वदते || सू० १५||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिहत्थाण वा' गृहस्थानां वा तत्र गृहस्थाः श्रोत्रियब्राह्मणादिकाः शुचिवादिनः तेषां गृहस्थानां श्रोत्रिय ब्राह्मणानां तथा 'अण्णतित्थियाण वा' अन्यतीर्थिकानां वा, तत्रान्यतीर्थिकाः परिव्राजकादयः, तेषामन्यतीर्थिकानां परिव्राजकतापसादीनां 'सीओदगपरिमोगेण' शीतोदकपरिभोगेन, शीतोदकस्य परिभोगः नित्यमातारूपो यस्य स शीतोदकपरिभोगः निरन्तरशीतोदकातायुक्त इत्यर्थः तेन हस्तेन 'मत्तेण वा' मात्रकेण वा पात्रविशेषेण 'दब्बीए वा' दर्या, काष्ठमय्या 'चाटु' इति प्रसिद्धया 'भायणेण वा' भाजनेन वा सचित्तशीतोदकप्रक्षालितभाजनेन वा 'असणं वा ४' अशनादिचतुर्विधमाहारं 'पडिग्गाहेइ' प्रतिगृह्णाति स्वीकरोति तथा 'पडिग्गातं वा साइज्जई' प्रतिगृह्णन्तं वा स्वदते अनुमोदते स प्रायश्चितभागी भवति । शुचिवादिश्रोत्रिया ब्राह्मणा गृहस्थाः परिव्राजकादयो वा, ते च प्रायः पात्रादि काष्ठमयमेव रक्षन्ति, निरन्तरशीतोदकार्द्रस्य अन्तो जललेपत्वेन तस्यार्द्रता न निर्गच्छति, हस्तावपि ते वारं वारं धावन्ति तत - स्तावपि प्राय आद्रौ एव लभ्येते ततस्तादृशहस्तादिना यदि साघुरशनादि गृह्णाति तदनन्तरं ते शीतजलेन तानि हस्तपात्रादीनि अवश्यमेव प्रक्षालयिष्यन्ति ततस्तद्गतलेपस्य परिहारदुः शक्यत्वेन बहुना सचित्तजलेन वारं वारं प्रक्षालनं करिष्यन्ति तेन साधोः पश्चात्कर्मदोषः समापधेत, तथा पुरा कर्मदोषोऽपि समापथेत यतस्ते भिक्षादानात् पूर्वमपि हस्तादि प्रक्षालयन्ति तस्मात् पश्चात्कर्मपुरा कर्मेति दोषद्रयसंभवात् तादृशगृहस्थादीनां हस्तादिना साधुरशनादि चतुर्विधमाहारं न गृह्णीयात्, गृह्णन्तं चान्यं नानुमोदेति ॥ सू० १५ ||
सूत्रम् — जे भिक्खू कटुकम्माणि वा पोत्थकम्माणि वा चित्तकम्माणि वा लेप्पकम्माणि वा दंतकम्माणि वा मणिकम्माणि वा सेलकम्माणि वा गंथिमाणि वा वेदमाणि वा पूरिमाणि वा संघाइमाणि वा पत्तच्छेज्जाणि वा विवाणि वा वेहिमाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंघातं वा साइज्जइ || सू० १६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
छाया -यो भिक्षुः काष्ठकर्माणि वा पुस्तकर्माणि वा चित्रकर्माणि वा लेप्यकर्माणि वा दन्तकर्माणि वा मणिकर्माणि वा शैलकर्माणि वा प्रन्थिमानि वा वेष्टिमाणि वा परिमाणि वा संघातिमानि वा पत्रच्छेद्यानि वा विविधानि वा वेधिमानि वा चक्षुर्दर्शनप्रतिज्ञया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ॥ सू० १६ ||
For Private and Personal Use Only