________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८
निशीथसूत्रे पादयतो बा नृत्यतो वा हसतो वा रममाणान् वा मोहयतो वा पिपुलमशन वा पानं वा खाद्यं बा स्वाद्य वा परिभाजयतो वा परिभुजानान् वा चक्षुर्दर्शनप्रतिक्षया अभिसंधार यति अभिसन्धारयन्तं वा स्वदते । सु० ५९॥
चूर्णी-'जे भिक्खू' इस्यादि । 'जे भिक्ख' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'विरुवरूवेसु' विरूपरूपेषु अनेकप्रकारेषु विलक्षणेषु वा 'महुस्सवेसु' वा महोत्सवेषु महान्तश्च ते उत्सवाश्चेति महोत्सवाः, तेषु इन्द्रमहोत्सवादिषु, यद्वा यत्रोत्सवे अनेकप्रकारकाः धनिका आढयतमाः अकिंचनाश्चापि संमिलिता भवन्ति, यद्वा-अनेकप्रकारकाः श्रेष्टिनो राजानो राजपुरोहिततलवगदयो मिलिता भवन्ति तादृशा उत्सवा महोत्सवाः, तादृशमहोत्सवेषु 'इत्थीणि वा' स्त्रियो वा पूर्वोक्तमहोत्सवेषु संमिलिताः स्त्रिय इत्यर्थः 'पुरिसाणि वा' पुरुपान् वा साधारणतः पुरुषवर्गानित्यर्थः, 'थेराणि वा' स्थविरान् वा, तत्र स्थविराः परिपकवयसः तान् वा 'मज्झिमाणि वा' मध्यमान् वा वयसो मध्ये स्थितानित्यर्थः, 'डहराणि वा' डहरान् वा, तत्र डहराः-अल्पवयस्काः तान् तादृशमहोत्सवे समुपस्थितान्, कीदृशान् तान् ! तत्राह-'अणलंकियाणि वा' अनलकृतान् वा कटककुण्डलाचलङ्काररहितान् वा 'सुअलंकियाणि वा' स्वलङ्कृतान् वा कटककुण्डलायङ्कारेण सुसज्जितवेषान् वा 'गायंताणि वा' गायतो वा तादृशमहोत्सवे संमिलितपुरुषेषु मध्ये केचन गानं कुर्वन्ति तान् गानं कुर्वतो वेति 'वायंताणि वा' वादयतो वा, तलतालमृदङ्गादि वाद्य वादयतो वा 'गच्चंताणि वा' नृत्यतो वा नृत्यं कुर्वतो वा 'हसंताणि वा' हसतो वा अनेकप्रकारकहासोपहासलास्यादिकं कुर्वतो वा 'रमंताणि वा' रममाणान् वा अनेक प्रकारककोडां कुर्वतो वा 'मोहंताणि वा' मोहयतो वा तादृशीं चेष्टां ये कुर्वन्ति यया परेषां मोह उत्पादितो भवेत् तादृशान् मोहोत्पादकानित्यर्थः । पुनः किं कुर्वतस्तान् ? तत्राह-'विउलं' इत्यादि । 'विउलं' विपुलमत्यधिकम् 'असणं वा' ४ अशनं वा ४ चतुर्विधमाहारजातम् 'परिभायंताणि वा' परिभाजयतो वा अशनादिभोज्यवस्तूनां परस्परं विभागं प्रविभज्य परस्परमादानप्रदानं कुर्वतो वा 'परिभुजंताणि वा परिभुज्जानान् वा अशनाद्याहारजातमेकत्र स्थित्वाऽऽहरतो वा' एतादृशान् पूर्ववर्णितप्रकारकान् स्त्रीपुरुषादीन् 'चक्खुदंसणवडियाए' इत्यादि पूर्ववत् ॥ सू० २९॥
सूत्रम्-जे भिक्खू इहलोइएसु वा स्वेसु परलोइएसु वा रूवेसु दिठेसु वा रूवेसु अदिठेसु वा रूवेसु सुएसु वा रूवेसु वा असुएसु वा रूवेसु विन्नाएसु वा रूवेसु अविन्नाएसु वा रूवेसु सज्जइ रज्जइ गिज्झइ अझोववज्जइ सज्जंत वा रज्जत वा गिझंतं वा अज्झोवबज्जत वा साइज्जइ ॥ सू० ३०॥
For Private and Personal Use Only