________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णिभाष्यावचूरिः उ० ११ सू० ७८-८० पर्युषिताशनाधाहारनिषेधः २७३
सूत्रम्-जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा परिवासेइ परिखासेंतं वा साइज्जइ ॥ सू० ७८॥
__छाया-यो भिक्षुः अशनं वा पानं वा खाद्य वा स्वाध वा परिवासयति परिवासयन्तं वा स्वदते ॥सू० ७८॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'असणं वा४' अशनं वा ४ अशनादिचतुविधाहारम् 'परिवासेइ' परिवासयति संस्थापयति सुन्दरमिदमशनादि आगामिदिने भोक्ष्यामीति रात्रौ स्थापयित्वा पर्युषितं करोति 'परिवासेंतं वा साइज्जइ' परिवासयन्तं वा स्वदते ॥ सू० ७८॥
सूत्रम्-जे भिक्खू परिवासियस्स असणस्स वा पाणस्स वा खाइमस्स वा साइमस्स वा तयप्पमाणं वा भूइप्पमाणं वा बिंदुप्पमाणं वा आहार आहारेइ आहारतं वा साइज्जइ ॥ सू०७९॥
छाया-यो भिक्षुः परिवासितस्य अशनस्य वा पानस्य वा खाद्यस्य वा स्वायस्य वा त्वचाप्रमाणं वा भूतिप्रमाणं वा बिन्दुप्रमाणं वा आहारमाहरति हरन्तं वा स्वदते। सू० ७९॥
__ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परिवासियस्स' परिवासितस्य पर्युषितस्य दिवसे भुक्तावशेषस्य रात्रौ स्थापितस्य 'असणस्स वा' अशनस्य वा 'पाणस्स वा' पानस्य वा 'खाइमस्स वा' खाद्यस्य वा 'साइमस्स वा' स्वाद्यस्य वा 'तयप्पमाणं वा' त्वचाप्रमाणं वा-त्वचा तनुतरा भवतीति त्वचाप्रमाणं अल्पप्रमाणमित्यर्थः 'भूइप्पमाणं वा' भूतिप्रमाण वा भूतिः-रक्षा-भस्म तत्प्रमाणं भस्मरजःकणप्रमाणं स्वल्पमात्र मपीत्यर्थः 'बिदुप्पमाणं वा' बिन्दुप्रमाणं वा जलादेविन्दुप्रमाणं वा 'आहारं आहारेइ' आहारसाहरति रात्रौ स्थापिताशनादेः स्वल्पमपि भागमाहरति भुङ्क्ते तथा 'आहारेतं वा साइज्ज' आहरन्तम्-अल्पमात्रस्याप्यशनादेर्भागस्योपभोगं कुर्वन्तं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७९॥
सूत्रम्-जे भिक्खू मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा संमेलं वा हिंगोलं वा अन्नयरंवा तहप्पगारं विरूवरुवं वा हीरमाणं पेहाए ताए आसाए ताए पिवासाए तं स्यणि अण्णत्थ उवाइणावेइ उवाइणावेतं वा साइज्जइ ॥ सू० ८०॥
For Private and Personal Use Only