________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णिमायावचूरिः उ०६ सू०४-८
मातग्रामप्रकरणम् १३५ चूी'जे मिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्मामस्स' मातृप्रामस्य-यस्याः कस्याश्चित् स्त्रियाः ‘मेहुणवडियार' मैथुनप्रतिज्ञया-मैथुमेच्छयेत्यर्थः अंगादाणं' अङ्गादानं 'संवाहेज्ज वा' संबाहयेद्वा 'पलिमदेज्ज वा परिमर्दयेद् का 'संवाहेत या' संबाहयन्तं वा एकवारं मर्दयन्तम् 'पलिमहेंतं वा' परिमर्दयन्तं वा अनेकवारं परिमर्दनं कुर्वन्तं वा 'साइन्जाई' स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ४ ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं तेल्लेण वा घएण वा वसाए वा नवणीएण वा अन्भंगेज्ज वा मक्खेज्ज वा अन्मगेंतं वा मक्खेंतं वा साइज्जइ ॥ सू० ५॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिक्षया अङ्गादानं तैलेन वा घृतेन वा वसा वा नवनीतेन वा अभ्यञ्जयेद्वा म्रक्षयेद्वा अभ्धजयन्तं वा प्रक्षयन्तै वा स्वदते ॥सूपा
चूर्णी-'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः 'माउग्गामस्स' मातृग्रामस्य-स्त्रियाः 'मेहुणवडियाए' मैथुनवाञ्छया 'अंगादाणं' भङ्गादानम् 'तेल्लेण वा' तैलेन वा तिलसर्पपादिजातेन 'घएण चा' घृतेन वा 'वसाए वा' बल्या वाचर्चाति-लोकप्रसिद्धया 'णवणीएण वा' नवनीतेन वा 'मक्खन' इति लोकप्रसिद्धेन 'अभंगेज वा' अभ्यञ्जयेद्वा एकवारं तैलादिना मर्दयेत् 'मक्खेज वा' म्रक्षयेद्वा अनेकवारं विशेषतो वा मर्दयेत् 'अभंगतं वा मक्खेंतं वा साइज्जइ' अभ्यञ्जयन्तं वा म्रक्षयन्तं वा स्वदले स प्रावश्चित्तभागी भवति ॥ सू० ५॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं कक्केण वा लाद्धेण वा पउमचुण्णेण वा सिणाणेण वा पहाणेण वा चुण्णेहिं वा वण्णेहि वा उव्वटेइ वा पखिटूटेइ वा उब्बडेतं वा पखिटेंते वा साइज्जइ ।
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिक्षया अङ्गादानं कल्केन वा लोध्रण वा पानचूर्णेन वा स्नपनेन वा स्नानेन वा चूर्णैर्वा वर्णैर्वा उद्धर्तयति वा परिवर्तयति वा उद्वर्तयन्तं वा परिवर्तयन्तं वा स्वदते ॥ सू०६॥
चूर्णी-'जे भिक्खू माउन्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनवाञ्छया 'अंगादाणं' अङ्गादानं 'कोण वा' कल्केन वा- अनेकद्रव्यसंयोगेन क्रियमाणो वस्तुविशेषः, तेन 'लोद्रेण वा' लोभ्रेण वा 'पउमचुण्णेण वा' पद्मचूर्णेन वा 'हाणेणवा' सपनेम वा, तत्र स्नपनं धिष्टादिनिर्मितोद्वर्त्तनद्रव्यमिश्रितजलेन सिाबनं,
For Private and Personal Use Only