________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
निशीथसूत्रे
भल्लातकेन पोषकौषधिविशेषेण सौन्दर्यादिकमुत्पाद्य पुनस्तदपनयनार्थम् 'सीओदगविय'डेण वा' शीतोदकविकटेन वा, तत्र विकटेन व्यपगतजीवेना चित्तेनेत्यर्थः तथा च अचित्तशीतजलेन तथा 'उसिणोदगवियडेण वा उष्णोदकविकटेन वा अचित्तोष्णन लेनेत्यर्थः, 'उच्छोलेन्ज वा ' उच्छोलयेद्वा एकवारम् ‘पधोएज्ज वा' प्रधावेद्वा अनेकवारम् 'उच्छोलेंतं वा पधोएंतं वा साइज्जइ' उच्छोलयन्तं वा प्रधावन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १५ ॥
सूत्रम् - जे भिक्खू माउग्गामस्स मे हणवडियाए पोसंतं वा पितं वा सोयंत वा उच्छोलेत्ता पधोवेत्ता अन्नयरेणं आलेवणजाएणं आलिं पेज्ज वा विलिपेज्ज वा आलिपतं वा विलिपंतं वा साइज्जइ ॥ सू० १६ ॥
छाया - यो भिक्षुः मातृग्रामस्य मैथुनप्रतिज्ञया पोषान्तं वा पृष्ठान्तं वा स्रोतोऽन्तं वा उच्छोल्य प्रधाव्य अन्यतरेण आलेपनजातेन आलेपयेद् वा विलेपयेद् वा आलेपयन्तं वा विलेपयन्तं वा स्वदते || सू० १६ ||
चूर्णी - 'जे भिक्खू' इत्यादि । भिक्षुः 'माउग्गामस्स' मातृप्रामस्य, 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथुनेच्छया 'पोसंतं वा पितं वा सोयतं वा' पोषान्तं पृष्ठान्तं स्रोतोऽन्तं वा पूर्वोक्तस्वरूपं 'उच्छोलेत्ता' उच्छोल्य 'पधोवेत्ता' प्रधाव्य प्रक्षाल्य तदनन्तरं 'अन्नयरेणं आवणजाएणं' अन्यतरेण केनाप्येकेन आलेपनजातेन आलेपनविशेषेण 'आलिपेज वा ' आलेपयेत् एकवारम्, 'विलिपेज्ज वा' विलेपयेद् वा वारं वारम् । एवं 'आलिंपतं वा विलिपंत वा' आलेपयन्तं 'वा' विलेपयन्तं वा 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति सू० १६॥
सूत्रम् - जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिट्ठतं वा सोयंतं वा उच्छोलेत्ता पधोएत्ता आलिपेत्ता विलिंपेत्ता तेल्लेण वा घरण वा वसाए वा णवणीएण वा अब्भंगेज्ज वा मक्खेज्ज वा अभंगत वामक्र्खेतं वा साइज्जइ ॥ सू० १७ ॥
छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया पोषान्तं वा पृष्ठान्तं वा स्त्रोतोऽन्तं वा उच्छोल्य प्रधाव्य आलिप्य विलिप्य तैलेन वा घृतेन वा वसया वा नवनीतेन वा अभ्यञ्जयेत् वा प्रक्षयेत् वा अभ्यञ्जयन्तं वा प्रक्षयन्तं वा स्वदते ॥ सू० १७॥
चूर्णी -- 'जे भिक्खू माउम्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'पोसंतं वा' पोषान्तं वा 'पितं वा' पृष्ठान्तं वा 'सोयंत वा' स्रोतोऽन्तं वा 'उच्छोलेत्ता - पधोएत्ता उच्छोल्य प्रधान्य शीतोष्ण
For Private and Personal Use Only