________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिभाष्यावचूरिः उ०७ सू०८५-९०
मातृग्रामप्रकरणम् २८५
सूत्रम् — जे भिक्खू माङम्मामस्स मेहुणवडियाए अन्नयरं पसुजायं वा पक्खिजायं वा 'अयमित्थि-चि कट्टु आलिंगेज्ज वा परिस्सएज्ज का परिचुंबेज्ज वा आलिंगंत वा परिस्स्वंतं वा परिचुंवंतं वा साइज्जइ ८५
छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अन्यतरं पशुजातं वा पक्षिजातं वा इयं स्त्री - ति कृत्वा आलिङ्गयेद्वा परिष्वजेत् वा परिचुम्बेत् वा आलिङ्गन्तं वा परिष्वजमानं परिचुम्वन्तं वा स्वदते ॥ सू०८५ ॥
चूर्णो - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया - मैथुनवाञ्छया 'अन्नयरं पसुजायं वा' अन्यतरं पशुजातं वा 'पक्खिजायं वा' पक्षिजातं वा 'अयमित्थि' - चि कट्टु अयम् पशु पक्षी वा 'बी इति' स्त्रीबुद्धि तेषु कृत्वा 'आलिंगेज्ज़ वा' आलिङ्गयेद्वा-आलिङ्गनं कुर्यात् 'परिस्सएज्ज वा' परिषतजेत वा परिष्वजनं विशेषतः आलिङ्गनम् 'परिचुंबेज्ज वा' परिचुम्बेत् वा मुखेन चुम्बनं कुर्यात् 'आलिंगंतं वा' आलिङ्गन्तं वा 'परिस्यंतं वा' परिष्वजमानं वा 'परिचुंबतं वा' परिचुम्बन्तं वा 'साइज्जइ' स्वदतेऽनुमोदते । स प्रायश्चित्तभागी भवति ॥ सू० ८५ ॥
सूत्रम् - - जे भिक्खू माउग्गामस्स मेहुणवडियाए असणं वा पाणं वा खाइमं वा साइमं वा देह देतं वा साइज्जइ ॥ सू० ८६ ॥
छाया -यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अशनं वा पानं वा खाद्य वा खाद्य वा ददाति ददतं वा स्वदते ॥सू० ८६ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउरगामस्स' मातृग्रामस्य 'मेहुणवडिया' मैथुनप्रतिज्ञया - मैथुनवाञ्छया अशनं वा पानं वा खाद्यं वा स्वायं वा चतुर्विधमहारजातं स्त्रियै 'इ' ददाति 'देतं वा' ददतं वा 'साइज्जइ' स्वदतेऽनुमोदते । यः कश्चित् श्रमणो मातृग्रामस्य मैथुनसेवनेच्छया स्त्रिये अशनादिकं ददाति दापयति ददतं वा अनुमोदयति स प्रायश्चित्तभागी भवति ॥ सू० ८६ ॥
सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छइ पड़िच्छंतं वा साइज्जइ ॥ सू० ८७ ॥
छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अशनं वा पानं वा स्वाद्य वा स्वाद्य वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० ८७॥
चूर्णी: - 'जे भिक्खू' इत्यादि । यो भिक्षुर्मैथुनसेवनेच्छया चतुर्विधमाहारजातं प्रतीच्छति गृह्णाति प्रतीच्छन्तं वा गृहन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० ८७ ॥
२४
For Private and Personal Use Only