________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावरिः उ०८ सू०१६-१९ हयादिशालागतराजादीनां भिक्षाहप्रणनिषेधः १९९
चूर्णी-'जे भिक्खू' इत्यादि । 'जे मिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' राज्ञः 'खत्तियाणं' इत्यादि, क्षत्रियादीनाम् पूर्वसूत्रप्रदर्शितस्वरूधाणां 'उत्तरसालंसि वा' उत्तरशालायां वा भ्रमणार्थ निर्मापिता या निजशालातोऽन्या शाला, तस्यां 'उत्तरगिहंसि वा' उत्तरगृहे वा तादृशे गृहे वा 'रीयमाणाणं' रीयमाणानाम् तत्र चंक्रमतां भ्रमणं कुर्वताम् 'असणं वा' इत्यादि, अशनादिकं चतुर्विधधमाहारं 'पडिग्गाहेई' प्रतिगृह्णाति 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १६॥
सूत्रम्--जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं हयसालागयाण वा गयसालागयाण वा मंतसालागयाण वा गुज्झसालागयाण वा रहस्ससालागयाण वा मेहुणसालागयाण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ।।सू० १७||
छाया-यो भिक्षुः रामः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां हयशालागतानां वा गजशालागतानां वा मंत्रशालागतानां वा गुह्यशालागतानां वा रहस्यशालागतानां वा मैथुनशालागतानां वा अशनं वा पानं वा खाद्य वा स्वाद्य वा प्रतिगृह्णाति प्रतिगृहन्तं था स्वदते ॥सु० १७॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रणो' इत्यादि, राज्ञः क्षत्रियाणाम् मुर्दाभिषिक्तानाम् पूर्वनिर्दिष्टस्वरूपाणाम् 'हयसालागयाण वा' हयशालागतानाम् वा अश्वशालास्थितानाम् ‘गयसालागयाण वा' गजशालागतानां वा हस्तिशालास्थितानाम् 'मंतसालागयाण वा' मन्त्रशालागतानां वा, यत्र राजादयः स्वपुरुषैः सह मन्त्रणां करोति तादृशशालास्थितानामित्यर्थः: 'गुज्झसालागयाण वा' गुह्यशालागतानां गुप्तकार्य यत्र शालायां करोति तादृशशालायां स्थितानाम् 'रहस्ससालागयाण वा' रहस्यशालागतानां वा रहस्यं दण्डविधानादिकार्य तस्य शालायां स्थितानाम् 'मेहुणसालागयाण वा' मैथुनशालागतानां वा मैथुनसेवनशालास्थितानाम्, हयादिशालास्थितानां राजादीनां पार्वात् 'असणं वा ४' इत्यादि, अशनादिचतुविधमाहारजातं 'पडिग्गाहेइ' प्रतिगृह्णाति-स्वीकरोति स्वीकारयति वा तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १७॥
सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं सण्णिहिसण्णिचयाओ खीरं वादर्हि वा णवणीयं वा सप्पि वा तेल्लं वा
For Private and Personal Use Only