________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णिमाम्यावरिः उ० ३ सू० ३६-३९ ___ कायगतगण्डादीनामुच्छोलनादिनिषेधः ५
सूत्रम्-जे भिक्खू अप्पणो कायंसि गंडे वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिदित्ता विच्छिदित्ता पूर्व वा सोणियं वा नीहरित्ता विसोहित्ता सीओदगविय. डेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलें वा पधोवेंतं वा साइज्जइ ।। सू० ३६ ॥ . छाया-यो भिक्षुः आत्मनः काये गण्डं वा पिलकं वा अरतिकां वा अशों की भगन्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन, आच्छिद्य विच्छिद्य पूर्व वा शोणितं का निहत्य विशोध्य, शीतोदकविकटेन वा उष्णोदकविकटेन वा, उच्छोलेद्वा प्रधावेद्वा, उच्छो. लन्तं वा प्रधावन्तं वा स्वदते ॥ खू० ३६ ।!।
चूर्णी-'जे भिक्ख' इत्यादि । 'जे भिक्ख' यो भिक्षुः 'अप्पणो कार्यसि' आत्मनः काये 'गंडं वा' गण्डं-कण्ठमाला वा, 'पिलगं वा'-पादत्रणं वा 'अरइयं वा' अरतिको वा-लघुवणजालरूपाम् 'असियं वा' अर्शो वा 'भगंदलं वा' भगन्दरं वा 'अन्नयरेणं तिक्खेणं सत्यजाएणं' अन्यतरेण तीक्ष्णेन शस्त्रजातेन 'आच्छिदित्ता विच्छिदित्ता' आच्छिद्य विच्छिद्य, ततो निर्गलन्तं पयं वा 'सोणियं वा शोणितं वा 'नीहरिता' निर्हत्य-निष्कास्य 'विसोहित्ता' विशोध्य, तदनन्तरम् 'सीओदगवियडेण वा' शीतोदकविकटेन वा- अचित्तशीतोदकेन- तण्डुलादिधावनजलेन वा, 'उसिणोदगवियडेण वा' उष्णोदकविकठेन-अचित्तोष्णोदकेन, 'उच्छोलेज्ज वा' उच्छोलेत्-एकवारमल्पं वा प्रक्षालयेत् , 'पधोवेज्ज वा प्रधावयेत्-अनेकवारमधिकं वा प्रक्षा. लयेत् । तथा-उच्छोलेंतं वा पधोतं वा साइज्जइ' उच्छोलन्तं वा प्रधावन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति, भवन्ति च तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनाल्मविराधनादोषाः, तस्मात्तथा न कर्त्तव्यं भिक्षुणा ।। सू० ३६ ॥
सूत्रम्-जे भिक्खू अप्पणो कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिदित्ताविच्छिदित्ता णीहरेत्ता विसोहेत्ता उच्छोलित्ता पधोवित्ता अन्नयरेणं आले. वणजाएणं आलिंपेज्ज वा विलिपेज्ज वा, आलिंपेतं वा विलितं वा साइ ज्जइ ॥ सू० ३७॥ . छाया-यो भिक्षुः आत्मनः काये-गण्डं वा पिलकं वा अरतिको वा अशी वा भगन्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन, आच्छिद्य विच्छिद्य निहत्य विशोध्य उच्छोल्य
For Private and Personal Use Only