________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिमाल्यावः उ०५ सू०६६-६८ बसपात्रादीनां छेदनादि कृत्वा परिष्ठापननिषेधः ११३
मुपविश्याहारादिकरणम् , ततः असमानसामाचारीकैरपि सहाहारादिकरणे संभोगप्रत्ययकारणिका क्रिया कर्मबन्धो न भवति, इत्येवंप्रकारेण यो वदति । अत्र 'संभोग'--शब्देन द्वादशप्रकारकसंभोगो ज्ञातव्यः, येन साधुना सह एकत्र भोजनादिव्यवहारो न भवेत्तेन, अथवा यः विरुद्धसामाचारोकस्तेन सह भोजनादिक्रियां करोतु न तत्र कोऽपि कर्मबन्धः, इत्येवं यो वदति, तथा 'वसंतं वा साइज्जई' वदन्तं वा स्वदते । यो हि भिक्षुः 'संभोगकारणकः कर्मबन्धो न भवति'. एवं वदति, तमनुमोदते च स प्रायश्चित्तभागी भवति, तथा तस्याज्ञा भङ्गानवस्थामिथ्यात्वादिका दोषा भवन्ति तस्मात् संभोगप्रत्यया क्रिया न भवतीत्येवं न वदेत् ।।सू०६५॥
सूत्रम्-जे भिक्खू वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अलं थिरं धुवं धारणिज्ज पलिच्छिदिय पलिच्छिदिय परिहवेइ परिहवेत वा साइज्जइ॥ सू० ६६॥
छाया-यो भिक्षुर्वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोञ्छनकं वा अलं स्थिर ध्रुवं धारणीयं प्रतिच्छिद्य प्रतिच्छिद्य परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ६६॥
चूर्णी-'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः निरवद्यभिक्षणशील: श्रमणः श्रमणी वा 'वत्थं वा वस्त्रं वा-क्षौमिकं कामिकं वा 'पडिग्गहं वा' प्रतिग्रहं वा-पात्रं वा 'कंबलं वा' कम्बलं वा-ऊर्णादिनिष्पन्नं 'पायपुंछणं वा' पादपोंछनकं वा-रजोहरणमित्यर्थः, 'अलं थिरं धुवं तत्र अलं कार्यकरणे पर्याप्तं समर्थमपि, स्थिरम् यथावस्थितं, ध्रुवं चिरकालपर्यन्तवर्तनयोग्यं 'धारणिज्ज' धारणीय-धारणयोग्यं कार्यकरणयोग्यमपि वस्त्रादिकम् 'पलिच्छिदिय:। पलिच्छिदिय' प्रतिच्छिद्य प्रतिच्छिद्य हस्तेन छुरिकादिना वा खण्डं खण्डं कृत्वा 'परिहवेई' परिष्ठापयति-कार्यक्षममपि वस्त्रादिकं हस्तेन शस्त्रादिना वा छित्त्वा भूमौ परिष्ठापयति निक्षिपति तथा 'परिट्ठवेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते, तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति । यस्मादेते दोषा भवन्ति तस्मात् कारणात् श्रमणः श्रमणी वा कार्यकरणक्षमं वस्त्रादिकं छित्वा न परिष्ठापयेत् , न वा परिष्ठापयन्तमनुमोदयेदिति ॥सू०६६॥
सूत्रम्--जे भिक्खू लाउयपायं वा दारुपायं वा मट्टियापायं वा अलं थिरं धुवं धारणिज्ज पलिभिदिय पलिभिदिय परिद्ववेइ परिद्ववेतं वा साइज्जइ सू० ६७॥
छाया-यो भिक्षुरलावुकपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा अलं, स्थिरं धवं धारणीय परिभिद्य परिभिद्य परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ६७ ॥
For Private and Personal Use Only