Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 43
________________ अपि च तस्याश्चन्दनपरिमल इव दक्षिणानिलेन सह समागच्छति मोहः । चक्राह्वशाप इव निशया सहापतति प्रजागरत्रासः । प्रतिरुतानीव वलभीकपोतकूजितैः सहाविर्भवन्ति दुःखानि । मधुकर इवोपवनकुसुमामोदेन सहोपसर्पति मरणाभिलाषः । तथा च जलकणिकेव पद्मिनीपलाशस्थिता कम्पते । प्रतिच्छायेव स्फटिकोपलसलिलमणिदर्पणमणिकुट्टिमतलेषु दृश्यते । नलिनीव शशिकरस्पर्शेन म्लायति । हंसीव सरसमृणालिकाहारव्यतिकरेण जीवति । शरदिव कुमुदकुर्वलयसंपर्कमनोहरगन्धवहा सकुसुमबाणा च विजृम्भते । चन्द्रमूर्तिरिव कमलप्रकरस्खलितपादपल्लवा संचरन्ती निशां नयति । कुमुदिनीव रजनिकरकिरणकृतजागरा दिवसमलीकनिद्रयातिवाहयति । मुररिपुजलशयनलीलेव मन्दोच्छसितशेषा - *********** अपि चेति युक्त्यन्तरे । तस्याः कादम्बर्याश्चन्दनपरिमल इव मलयजामोद इव दक्षिणानिलेनावाचीमारुतेन सह मोहो मूर्छा समागच्छति । चक्राह्मेति । निशया त्रियामिन्या सह चक्राह्वो रथाङ्गाह्वयस्तस्य शापः पृथग्भवनलक्षणस्तद्वदिव प्रजागरत्रासो जागरणभयमापतत्यागच्छति । प्रतीति । वलभी गृहोपरिभागस्तस्यां कपोताः पारावतास्तेषां कूजितै रटितैः सह प्रतिरुतानीव प्रतिश्रुतानीव दुःखान्यसुखान्याविर्भवन्ति प्रकटीभवन्ति । मधुकर इति । उपवनस्य कुसुमानि पुष्पाणि तेषामामोदो दूरगामी गन्धस्तेन सह मधुकर इव । जात्येकवचनम् । मरणाभिलाषो मृत्युवाञ्छोपसर्पति समीपमायाति । प्रकारान्तरेण तां वर्णयबाह - तथा चेति । पद्मिनी कमलिनी तस्याः पलाशानि पत्राणि तेषु स्थिता जलकणिकाऽम्भोबिन्दुरिव कम्पते चलते । एतेनोभयोः साधर्म्यमाविष्कृतमिति भावः । प्रतीति । स्फटिकोपलश्च सलिलं च मणिदर्पणश्च मणिकुट्टिमतलानि च तेषु प्रतिच्छायेव प्रतिबिम्बमिव दृश्यते । जनैरिति शेषः । नलिनीति । शशिकराश्चन्द्रकिरणास्तेषां स्पर्शः संयोगविशेषस्तेन नलिनीव म्लायति म्लानिं प्राप्नोति । नलिन्याः सूर्यविकासित्वेन, अस्याच विरहव्याकुलितचित्तत्वेन शशिकरस्पर्शादेव म्लानिरिति भावः । हंसीवेति । सरसा रसोपयुक्ता या मृणालिन्यः कमलिन्यस्तासां हारा मुक्ताप्रालम्बास्तेषां व्यतिकरण संबन्धेन हंसीव वरटेव जीवति प्राणिति । हंसीपक्षे मृणालिकाया आहारो भोजनं तेन प्राणवृत्तिं करोतीत्यर्थः । शरदिवेति । कुमुदं श्वेतकमलं सूर्यविकासिं, कुवलयं चन्द्रविकासि, एतेषां संपर्कः संबन्धस्तस्माद्यो मनोहरगन्धस्तं वहतीति वहाँ । सुकुसुमबाणा चेति । सह कुसुमेन पुष्पेण वर्तमाना बाणा वृक्षविशेषा यस्याः यस्यां वा । एवंविधा सती शरदिव घनात्यय इव सा विजृम्भते । इतस्ततः प्रसरतीत्यर्थः । चन्द्रमूर्तिरिति । कमलानां नलिनानां प्रकरः समूहस्तस्मिन्स्खलिताः स्खलनां प्राप्ताः पादा अङ्ग्रयः किरणा वा त एव पल्लवा यस्याः सैवंविधा चन्द्रमूर्तिरिव संचरन्ती व्रजन्ती निशां नयति । रात्रिं गमयतीत्यर्थः । कुमुदिनीति । रजनिकरश्चन्द्रस्तस्य किरणैरंशुभिः कृतो विहितो जागरो जागरणं यस्याः सैवविधा कुमुदिनीव कैरविणीवालीकनिद्रया दिवसमतिवाहयति । गमयतीत्यर्थः । अत्रालीकनिद्रत्वं नेत्रकुमुदिन्योर्निद्राभावेन संकोचमात्रापेक्षया मन्तव्यम् । मुररिपुरिति । मुररिपुः कृष्णस्तस्य जलशयनलीलेव मन्दं मन्दमुच्छसितमेव शेषो यस्याः सा कादम्बरी किमप्यनिर्वचनीयस्वरूपं चिन्तयति ध्यायति । जलशयनलीलापक्षे मन्दं मन्दमुच्छासित उच्छासं प्राप्तः । संजातोच्छास इति यावत् । - - - - - - - - - - - - --- टिप्प० - 1 पारवतकृजितैः सह यथा तेषां प्रतिरुतान्याविर्भवन्ति तथा तस्या दुःखानि प्रकटीभवन्तीत्याशयः । 2 कातिशयात् सा प्रतिच्छायेव दृश्यते । अथवा विरहतपवशादेतेषु पदार्थेषु सा निपतति, अत एव प्रतिच्छायेव । 3 शरतपक्षे कुमुदादिसंपर्केण मनोहरो गन्धवहो यस्याम् । 4 कादम्बरी तु सकुसुमबाणा कुसुमबाणेन कामेन सहिता । 5 कुमुदिन्याः किरणैर्जागरः विकासो भवतीति ज्ञेयम् । - - - - - - - - - - - - - - - पाठा० - १ दर्पणकुट्टिम; दर्पणतलकुट्टिम. २ कुवलयकमल. ३ प्रजागार. 516 कादम्बरी। कथायाम

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246