Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
भतमजीविता वयमपि यावत्पश्यामस्तं तावदनपेक्षितप्राणवृत्तयः स्नेहसद्भावनया सद्धृत्या न पश्यन्तीत्यघटमानकमिदम् । तदपरिलम्बितं प्रवेश्यताम् । पश्यन्तु देवम् । सैफलयित्वागमनपरिश्रमेण साधु लोचने ततो यास्यन्ति' इत्याज्ञानन्तरं च मेघनादेन प्रवेशितान्दूरत एव समं बाष्पपातेन पञ्चाङ्गालिङ्गितमहीतलांश्चन्द्रापीडचरणवन्दनसद्भावनिहितोत्पश्मनिभृतदृष्टींस्ताननन्यदृष्टिश्चिरैमिवालोक्य कादम्बरी स्वयमेवाभाषत -
'भद्रमुखाः, परित्यज्यतामयं क्रमागतनेहसद्भावसुलभः शोकावेगः । यत्खल्वनालोचितावधि दुःखावसानमेव दुःखं तन्मरणभीरोर्भवतु नाम शोकावेगाय । यत्पुनः सुखोद तत्पुरःस्थितया सुखप्रत्याशयैवान्तरितं नापतति हृदये । तदेष वृत्तान्त एवंविधो येन न केवलमत्र निरवकाशता शोकस्य, प्रत्युत सुदूरभिनवृत्तेर्विस्मयस्यावसरः । किमत्र परिबोधनेन,
***********
प्रियं जीवितं प्राणितं येषामेवंविधा वयमपि तं चन्द्रापीडं यावत्पश्यामोऽवलोकयामस्तर्खेते लेखहारका अनपेक्षिता असमीहिताः प्राणवृत्तयो यैरेवंभूताः स्नेहस्य सद्भावो विद्यते यस्यामेवंविधया नेहसद्भावनया सद्धृत्याः सदनुचरा न पश्यन्ति न विलोकयन्तीत्यघटमानकमयुक्तमिदम् । तदपरिलम्बितमविलम्बितं प्रवेश्यतां प्रवेश कार्यताम् । देवं चन्द्रापीडं पश्यन्त्ववलोकयन्तु । आगमनपरिश्रमेण प्रयासेन साधु लोचने नेत्रे सफलयित्वा कृतार्थीकृत्य ततस्तदनन्तरं यास्यन्ति गमिष्यन्तीत्याज्ञा निदेशस्तदनन्तरं च मेघनादेन प्रवेशितान्दूरत एव दविष्ठादेव बाष्पपातेनाश्रुपातेन समं द्वे जानुनी, द्वौ करौ, उत्तमाङ्गं चेति पञ्चाङ्गैरालिङ्गितमाश्लिष्टं महीतलं भूमितलं यैस्ते तथा तान् । चन्द्रापीडस्य चरणयोः पादयोर्वन्दनं नमस्करणं तस्य सद्भावेऽस्तित्वे निहिताः स्थापिता उदूर्ध्वं पक्ष्म नेत्ररोम यासामेवंविधा निभृता निश्चला दृष्टयो दृशो यैस्ते तथा तान् । न विद्यतेऽन्यस्मिन्दृष्टिर्यस्याः सैवंभूता कादम्बरी चिरमिव चिरसदृशमालोक्य निरीक्ष्य स्वयमेवात्मनैवाभाषतावोचत् ।
किं तदित्याह - भद्रेति । भो भद्रमुखाः शुभाननाः, क्रमागतः परम्परायातो यः स्नेहसद्भावः प्रेमसत्ता तेन सुलभः सुप्रापोऽयं शोकावेगः शुग्रयः परित्यज्यतां परिमुच्यताम् । अनालोचितोऽविमृष्टोऽवधिर्मर्यादा यस्य तत्तथा, दुःखमेवावसाने प्रान्ते यस्यैवं तदुःखमेव मरणभीरोः कातरस्य । खल्विति निश्चयेन । शोकावेगाय भवतु । यत्पुनः सुखः सुखकूदुदर्क उत्तरकालजन्यं फलं यस्यैवंभूतं दुःखं पुरःस्थितयाग्रे वर्तमानया सुखप्रत्याशयैव सौख्यलिप्सयैवान्तरित व्यवहितं हृदये चित्ते नापतति नागच्छति । 'आयतिस्तूत्तरः काल उदर्कस्तद्भवं फलम्' इति हैमः । तत्तस्माद्धेतोरेष वृत्तान्त एवंविधो येन कारणेन(न)केवलमत्र शोकस्य शुचो निरवकाशता निःप्रवेशता, प्रत्युत सुदूरं भिन्ना वृत्तिर्वर्तनं यस्यैवंभूतस्य विस्मयस्याश्चर्यस्यावसरः प्रस्तावः । अत्रास्मिन्विषये परिबोधनेन ज्ञापनेन किम् । न किमपीत्यर्थः । एतदेव विशिनष्टि - अन्यत्र मनुष्येष्वदृष्टपूर्वो -
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'स्नेहसंभावनीयाः' इति पाठः । स्नेहेन संभावनीया आदरणीयाः । 2 'प्रवेश्यन्ताम् (ते वार्ताहराः) इत्येव पाठः । 3 वन्दने यः सद्भावः प्रणयस्तेन निहिता उत्पक्ष्मा निभृता दृष्टियस्तानित्यर्थः । 4 मरणाद्धीतस्यैव तदिदं दुःखं भोक्तव्यम्, अन्यथा तत्समये मरणमेवोचितमित्याशयः । 5 सुखस्य प्रत्याशा दुःखे व्यवधानभूता भवति, अत एव दुखं न जायत इत्यर्थः । 6 अतिविरुद्धा वृत्तिर्यस्य, एवंविधस्थले विस्मयो न संभवतीत्याशयः ।
पाठा० - १ सद्भावनीयाः, २ अघटमानम्. ३ सफलयन्तु. ४ अदूरतः. ५ चिरमवलोक्य. ६ अलपत्. ७ सुलभ. ८ न खलु.
(दूताना सान्त्वनम् ।
उत्तरभागः।
Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246