Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
र्वतस्तुरगखुरसहासु भूमिष्येकदा चन्द्रापीडचरणमूलोपविष्टां कादम्बरीमुपसृत्य मेघनादो व्यजिज्ञपत् -
'देवो युवराजश्चिरयतीत्युत्ताम्यता हृदयेन देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च वार्ताहराः प्रहिताः । ते च देव्या एव शोकशल्यघटना परिहरद्भिर्यावृत्तं सर्वमाख्यायास्माभिरभिहिताः - भवतां हस्ते देवेन चन्द्रापीडेन न किंचित्प्रतिसदेष्टव्यम् । नापि देव्या कादम्बर्या । तदकृतविलम्बा एव गत्वैवमखिलवृत्तान्तं लोकार्तिहरायावनितलपतये देवदेवाय तारापीडायावेदयत' इत्येवमभिहितास्तु तेऽस्मान्मन्युनिर्भराः प्रत्यवदन्-'यथा भवद्भिः कथितं तत्तथा । तिष्ठतु तावत्क्रमागतस्नेहो भक्तिरनुवृत्तिर्वा । कार्यगौरवकृतं कुतूहलमेव देवावलोकनं प्रति बलात्प्रेरयत्यस्मान् । यदि भवतामपि वार्तामात्रकोपलभ्य एवायमर्थः, ततो युज्यतेऽस्माकं भवद्भ्यः समुपलभ्य प्रतिगमनम् । अथ नयनविषयगामी तदा वयमपि नेदृशा ऐवापुण्यकर्माणो ये न पश्यन्ति देवम् । अस्माभिरपि चिरतरं चरणपरिचर्यया देवस्य पवित्रित एवात्मा । अस्माकमपि सर्वदा दर्शनगोचरावस्थानेन प्रसादं कृत -
*********** तितेषु क्षुण्णेषु प्राञ्जलवम॑सु सुकुमारमार्गेषु सत्सु । जम्बालविगमात्कर्दमापगमात्सर्वतोऽभितस्तुरगानामधानां खुराः शफास्तान्सहन्ते क्षमन्ते इति तुरगखुरसहास्तास्वेवंविधासु भूमिषु वसुधास्वेकदैकस्मिन्समये चन्द्रापीडस्य चरणयोर्मूलं समीपं तत्रोपविष्टां स्थितां कादम्बरीमुपसृत्य समीपमागत्य मेघनादो व्यजिज्ञपज्ज्ञापयामास ।
किं तदित्याह - देवेति । देवो युवराजश्चन्द्रापीडश्चिरयति विलम्बयतीत्युत्ताम्यतोत्प्राबल्येन खेदं कुर्वता हृदयेन चेतसा देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च वार्ताहरा लेखहारकाः प्रहिताः प्रेषिताः । ते च वार्ताहरा देव्याः शोक एव शल्यं शरीरान्तर्गतलोहखण्डस्तस्य घटना रचनां परिहरद्भिर्वर्जयद्भिरस्माभिर्यथावृत्तं यथाभूतं सर्वं समग्रमाख्याय कथयित्वाभिहिताः कथिताः । भवतां युष्माकं हस्ते देवेन चन्द्रापीडेन न किंचित्प्रतिसदेष्टव्यं न प्रतिकथनीयम् । नापि देव्या कादम्बर्या । तत्तस्मात्कारणादकृतो विलम्बः कालक्षेपो यैरेवंविधा एव गत्वा गमनं कृत्वैवाखिलं समग्र वृत्तान्तमुदन्तं लोकानां जनानामार्तिः पीडा तस्या हरायावनितलपतये भूतलस्वामिने देवदेवाय राजाधिराजाय तारापीडायावेदयत न्यवेदयत इत्येवमभिहिताः कथितास्तु तेऽस्मान्मन्योः क्रोधस्य निर्भरो येष्वेतादृशाः प्रत्यवदन्प्रत्यूचुः । किंतदित्याशयेनाह - यथेति । यथा येन प्रकारेण भवद्भिः कथितमुक्ततत्तथा तेन प्रकारेणास्तु । क्रमागतः परम्परायातः स्नेहः प्रेम, भक्तिराराध्यत्वेन ज्ञानम्, अनुवृत्तिरनुवर्तनं वा तिष्ठत्वास्ताम् । परं कार्यस्य कृत्यस्य गौरवं गुरुत्वं तेन कृतं विहितं कुतूहलमेव कौतुकमेव देवस्य चन्द्रापीडस्यावलोकन वीक्षणं प्रत्यस्मान्बलाद्धठात्प्रेरयति नोदयति । यदि भवतामपि केवलं वार्ता वार्तामात्रकं तेन उपलभ्य प्राप्य एवायमर्थः प्रयोजनम् । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । ततो युज्यते घटतेस्माकं भवद्भ्यः समुपलभ्य कथयित्वा प्रतिगमनं प्रतियानम् । अथ नयनविषयं चक्षुर्गोचरं गच्छतीत्येवंशीलोऽर्थः, तदा वयमपि नेदृशा एवापुण्यकर्माणोऽशुभकृत्यकारिणो ये न देवं पश्यन्त्यवलोकयन्ति । अस्माभिरपि देवस्य चिरतरं चिरकालं चरणपरिचर्यया पादसेवयात्मा पवित्रित एव । अस्माकमपि सर्वदा सर्वकालं दर्शनगोचरमवलोकनविषयं यदवस्थानमवस्थितिस्तेन प्रसादमनुग्रहं देवः कृतवानेव विहितवानेव । अद्य -
- - - - - - - - - - - - - - टिप्प० -1 'निवेदयत' इत्येव । न्यवेदयतेति लेखकदोष एव स्यात् । 2 अर्थात् प्रत्यक्षदर्शनस्य नावसरः, केवलं संवादप्राप्तिरेव वशः । 3 प्रवृत्तिम् (संवादम्) प्राप्य गमनमित्यर्थ उचितः ।।
पाठा० - १ सहासु संजातासु. २ देवि देवः. ३ अस्याभिर्यथावृत्तं समाख्याय. ४ भवता तु हस्तेन. ५ अखिललोक. ६ हरये. ७ देवाय. ८ कारयति. ९ भवतां वार्ता. १० मात्रकलभ्यः. ११ युज्यत एव. १२ अपि च. १३ एव केऽप्यगुणाः. १४ देवचरणपरिचर्यया. १५ प्रसादीकृतवान्.
(दूतानां कुमारदर्शनाग्रहः
उत्तरभागः।
641
Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246