Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 213
________________ 'महात्मन्, अहं खलु क्रूरकर्मा जात्या चाण्डालः । न च मया त्वमामिषलुब्धेन कुतूहलेन वा बद्धः । मम खलु स्वामी पक्कणाधिपतिरितो नातिदूरे मातङ्गकप्रतिबद्धायां भूमौ कृतावस्थानः । तस्य दुहिता कौतुकमये प्रथमे वयसि वर्तते । तस्यास्त्वं केनापि दुरात्मना कथितो यैथा जाबालेराश्रम एवंगुणविशिष्टो महाश्चर्यकारी शुकस्तिष्ठतीति । तया च श्रुत्वोत्पन्नकौतुकात्त्वद्ग्रहणाय बहेव एवापरे मादृशाः समादिष्टाः । तदद्य पुण्यैर्मयासादितोऽसि । तदहं तत्पादमूलं त्वां प्रापयामि । बन्धमोक्षे चाधुना सा ते प्रभवति' इति । अहं तच्छ्रुत्वा मुक्ताशनिनेव ताडितः शिरसि, संविग्नान्तरात्मा चेतस्यकरवम्- 'अहो मे मन्दपुण्यस्य दारुणतरः कर्मणां विपाकः । येन मया सुरासुरशिरः शेखराभ्यर्चितचरणसरसिजायाः श्रियो जातेन, जगत्त्रयनमस्यस्य महामुनेः श्वेतकेतोः स्वहस्तसंवर्धितेन, दिव्यलोकां श्रमनिवासिना भूत्वा म्लेच्छजातिभिरपि दूरतः परिहृतप्रवेशमधुना पक्कणं 'प्रवेष्टव्यम् ।' किं तदित्याह - महात्मन्निति । हे महात्मन् हे महानुभाव, अहं खलु निश्चयेन क्रूरकर्मा निस्त्रिंशकर्मा कठिनकर्मा जात्या जन्मना । ‘जातिः सामान्यजन्मनोः' इत्यमरः । चाण्डालः श्वपचः । न च मया चाण्डालेनामिषलुब्धेन मांसगृधुना कुतूहलेन कौतूहलेन वा त्वं बद्धः संदानितः । खलु निश्चये । मम स्वामी पक्कणाधिपतिः पक्कणः शबरावासस्तस्याधिपतिरीश इतः स्थानान्नातिदूरे नातिदविष्ठे मातङ्गकैरन्त्यजैः प्रतिबद्धायां कृतगृहादिरचनायां भूमौ कृतमवस्थानं येन सः । तत्र कृतनिवास इत्यर्थः । 'पक्कणः शबरावासो घोषस्त्वाभीरपल्लिका' इति हैमः । तस्य पक्कणाधीशस्य दुहिता सुता कौतुकमय आश्चर्यमयेऽत्यद्भुतरूपवत्त्वाठप्रथम आद्ये वयसि दशायां वर्तते । केनाप्यज्ञाताभिधानेन दुरात्मना तस्या दुहितायास्त्वं कथितो निवेदितो यथा जाबालेर्मुनेराश्रम एवंगुणैर्विशिष्टो महाश्चर्यकारी महाकौतुककृच्छुकस्तिष्ठत्यास्त इति । तया च पक्कणाधिपतिसुतया श्रुत्वाकर्ण्योत्पन्नकौतुकात्संजातकुतूहलात्त्वद्ग्रहणाय त्वदानयनाय बहव एवापरे मादृशा मत्सदृशाः समादिष्टा आज्ञापिताः । तदिति हेत्वर्थे । अद्य पुण्यैः सुकृतैस्त्वं समासादितः प्राप्तोऽसि तत्तस्माद्धेतोस्तस्याः पादमूलं चरणसमीपमहं श्वपचस्त्वां प्रापयामि नयामि । अधुना सांप्रतमिति हेतोस्ते तव बन्धमोक्षे सैव चाण्डालसुतैव प्रभवति समर्था भवति । नाहम् । अहं वैशम्पायनस्तच्छ्रुत्वाकर्ण्य मुक्तो योऽशनिर्वज्रं तेन शिरस्युत्तमाङ्गे ताडित इव संविग्न उद्विग्नोऽन्तरात्मा यस्यैवंभूत इति चेि चित्तेऽकरवं व्यथामन्वतिष्ठम् । अहो इति खेदे । मे मम मन्दपुण्यस्य स्वल्पसुकृतस्य कर्मणां कृतशुभाशुभानां दारुणतरोऽतिभयावहो विपाकोऽनुभवनकालः येन कारणेन मया सुरासुराणां देवदैत्यानां शिरः शेखरैर्मौलिमुकुटैरभ्यर्चितं पूजितं चरणसरसिजमङ्घ्रिपद्मं यस्या एवंविधायाः श्रियो लक्ष्म्या जातेनोत्पन्नेन जगत्त्रयनमस्यस्य त्रिभुवननमस्करणीयस्य महामुनेः श्वेतकेतोः स्वहस्तैर्निजपाणिभिः संवर्धितेन वृद्धिं प्रापितेन दिव्यो देवयुक्तो य आश्रमो मुनिस्थानम् । 'आश्रमस्तु मुनिस्थानम्' इति हैमः । तत्र निवासिनावस्थानशीलेन भूत्वा 'पुलिन्दा नाहला निष्ठा शबरा बरुटा भटाः । माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥' एतैर्लेच्छजातिभिरपि दूरतः परित्यक्तः प्रवेशो यस्मिन्त्रेतादृशमधुना सांप्रतं पक्कणं प्रवेष्टव्यं तत्र - टिप्प० - 1 पूर्वं धर्मिनिर्देशादत्रापि समविशेष्यः 'कुतूहलिना (कौतुकयुक्तेन ) ' इत्येव पाठः सम्यक् । 2 कौतुकमये कौतुकबहुले । प्रथमे वयसि (कौमारे ) सर्वस्य कि कौतुकानि प्रतिपदं भवन्ति । 3 विद्यार्थिभिस्तु 'दुहितुः' इति रूपं ज्ञेयम् । 4 'उत्पन्नकौतुकया' इत्येव पाठः । 5 बन्धे मोक्षे चेत्येव पाठः । पाठा० - १ कुतूहलिना. २ मातङ्ग ३ यथा किल. ४ तिष्ठतीति. ५ बहब एवापरेऽपि; अपरिमिता. ६ नयाम्यहम् ७ बन्धमोक्षे च ८ शुष्काशनिना. ९ सुरासुरशिखराभ्यर्चिते चरणसरसिजया श्रिया जनित्वा. १० आश्रय ११ द्रष्टव्यम्. 686 कादम्बरी । कथायाम्

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246