Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 212
________________ विरहितमिव कालपुरुषम्, अतिकठिनतया कालिम्ना च वपुषः कालायसपरमाणुभिरिव केवलैर्निर्मितम्, प्रेतपतिमिवापरम्, प्रतिपक्षमिव पुण्यराशेः, आशयमिव पाप्मनः, विनापि क्रोधकारणादाबद्ध भीषणभृकुटिरौद्रतरेणाननेनौरक्तकेकरतरकनीनिकेन च चक्षुषा सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिवोपजनयन्तम्, आशये केशेषु चास्निग्धम्, आनने ज्ञाने चान्धकारितम्, वर्णे चरिते च कृष्णम्, निवसने कर्मणि च मलिनम्, वचसि वपुषि च पूरुषम्, अदृष्टाश्रुतानुरूपमप्याकारप्रत्ययादेवानुमीयमानक्रौर्यदोषं पुरुषमद्राक्षम् । आलोक्य च तं तादृशमात्मन निष्प्रत्याश एवापृच्छम् - ‘भद्र कस्त्वम् ? किमर्थं वा त्वया बद्धोऽस्मि । यद्यामिषतृष्णया, तत्किमिति सुप्त एव न व्यापादितोऽस्मि । किं मया निरागसा बन्धदुःखमनुभावितेन । अथ केवलमेव कौतुकात् । ततः कृतं कौतुकम् । मुञ्च मामिदानीं त्वं भद्रमुखः । मया खलु वल्लभजनोत्कण्ठितेन दूरं गन्तव्यम् । अकालक्षेपक्षमं वर्तते मैं हृदयम् । भवानपि प्राणिधर्मे वर्तते' एवमुक्तः स मामुक्तेवान् - तश्च पाशविरहितं कालपुरुषमिव यममिवातिकठिनतयातिकठोरतया वपुषो देहस्य कालिम्ना कृष्णत्वेन च केवलैः कालायस परमाणुभिर्लेहाणुभिरिव निर्मितं रचितमपरं प्रेतपतिं यममिव पुण्यराशेः सुकृतसङ्घातस्य प्रतिपक्षमिवासहनमिव पाप्मनः पापिष्ठस्याशेयमिवाभिप्रायमिव । क्रोधकारणाद्विनापि मन्युहेतुं विनाप्याबद्धा या भीषणा भैरवा भृकुटयस्ताभिः रौद्रतरेण भीषणतरेणाननेन मुखेनारक्ता लोहिता केकरतरा अतिवक्रा कनीनिका यस्यैवंभूतेन च चक्षुषा नयनेन कृत्वा सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिव भीतिमिवोपजनयन्तमुत्पादयन्तं निष्पादयन्तम्, आशयेऽभिप्राये केशेषु चालकेषु चास्निग्धं रूक्षमानने मुखे ज्ञाने चावबोधे चान्धकारितं प्राप्तान्धकारम्, वर्णे देणे चरित आचरणे च कृष्णं श्यामम्, निवसने वस्त्रे कर्मणि क्रियायां च मलिनं कश्मलम्, वचसि वाचि वपुषि शरीरे च परुषं कठिनम्, अदृष्टश्रुतमनुरूपं स्वैरूपं यस्यैवंभूतमप्याकारप्रत्ययादाकृतेर्ज्ञानादेवानुमीयमानमनुमानेन ज्ञायमानं क्रौर्यदोषं क्रूरतादूषणं यस्य स तमेवंविधं पुरुषं नरमद्राक्षं व्यलोकयम् । आलोक्य च निरीक्ष्य च तं तादृशमात्मनः स्वस्योपरि निष्प्रत्याशी निराश एवाहमपृच्छमप्रश्नयम् । हे भद्र, कस्त्वम् । किमर्थं किंप्रयोजनं वाहं बद्धोऽस्मि । यद्यामिषतृष्णया मांसलिप्सया तत्तस्माद्धेतोः सुप्त एव निद्रां गत एव किमिति न व्यापादितो न हतोऽस्मि । किं बन्धदुःखमनुभावितेन प्रापितेन मया निरागसा निरपराधिना । अथ केवलमेव कौतुकादाश्चर्यादिति चेत्कृतं कौतुकं विहितं कुतूहलम् । 'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः । भद्रमुखः कल्याणकृद्वदनस्त्वमिदानीं सांप्रतं मां मुञ्च त्यज । वल्लभजने प्रणयिनि जन उत्कण्ठितेन मयोत्केन मया वैशम्पायनेन दूरं दविष्ठं गन्तव्यं गमनीयं चलनीयम् । मम हृदयं चेतो मानसमकालक्षेपक्षमं कालविलम्बे समर्थं न वर्तते । भवानपि प्राणिधर्म एव वर्तते मनुष्योऽसीति तद्धर्मान्वेत्सि । एवमुक्तः कथितो मामित्युक्तवान्भणितवान् । टिप्प० - 1 आश्रयमित्येव पाठः । 2 'अदृष्टाश्रुताननुभूतमपि आकारप्रत्ययादेवानुमीयमानक्रौर्यदोषम्' इत्युचितः पाठः । न दृष्टं न श्रुतं न अनुभूतमपि, इति तदर्थः । पाटा० - १ आश्रयम्. २ भ्रुकुटी. ३ आरक्तकेकरतल; रक्ततर. ४ चक्षुषा च ५ अदृष्टश्रुतानुरूपम्; अदृष्टश्रुतानुभूतम्. ६ च ७ अनुभावितेनापि. ८ जनदर्शन. ९ मद्धृदयम्. १० प्राणिधर्मे प्रवर्तते; प्राणिधर्मेषु वर्तत एवेति ११ स त्वेवमुक्तः. १२ प्रत्यवादीत्. (वृक्षे निद्रितस्य तस्य चण्डालहस्ते गमनम् उत्तरभागः । 685

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246