Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 216
________________ नकुशलैः कौलेयकमुक्तिसंचारणचतुरैश्चण्डालशिशुभिर्वृन्दशो दिशि दिशि मृगयां क्रीडद्भिर्दूरत ऐवावेष्ट्यमानम्, इतस्ततो विस्रगन्धिधूमोद्गमानुमीयमानसान्द्रवंशवनान्तरितवेश्मसंनिवेशम्, सर्वतः करङ्कप्रायवृत्तिवटम्, अस्थिप्रायरथ्यावकरकूटम्, उत्कृत्तमांसमेदोवैसासृक्कर्दमप्रायकुटीराजिरम्, आखेटप्रायाजीवम्, पिशितप्रायाशनम्, वसाप्रायस्नेहम् कौशेयप्रायपरिधानम्, चर्मप्रायास्तरणम्, सारमेयप्रायपरिवारम्, धवलीप्रायवाहनम्, स्त्रीमद्यप्रायपुरुषार्थम्, असृक्प्रायदेवताबलिपूजम्, पशूपहारप्रायधर्मक्रियम्, आकारमिव सर्वनरकाणाम्, कारणमिव सर्वाकुशलानाम्, संनिवेशमिव सर्वश्मशानानाम्, पत्तनमिव सर्वपापानाम्, आयतनमिव सर्वयातनानाम्, स्मर्यमाणमपि भयंकरम्, श्रूयमाणमप्युद्वेगकरम्, दृश्यमानमपि पापजननम्, जन्मकर्मतो मलिनतरजनम्, जनतो निस्त्रिंशतरलोकहृदयम्, - नमभिवादनं तत्र कुशलैश्चतुरैः । कौलेयकानां शुनां मुक्तौ जीवोपरि मोचने संचारण इतस्ततः परिभ्रमणे चतुरैरभिज्ञैः । ‘कौलेयकः सारमेयः कुक्कुरो मृगदंशकः' इत्यमरः । एतादृशैश्चण्डालशिशुभिः श्वपचदारकैः । वृन्दैश्च वृन्दैश्च वृन्दशः । दिशि दिशि मृगयामाखेटकं क्रीडद्भिः क्रीडां कुर्वद्भिः आवेष्ट्यमानमित्यनेन संबन्धः । पुनः प्रकारान्तरेण विशेषयन्नाह - इतस्तत इति । इतस्ततो यत्र तत्र विसगन्धिरामगन्धो यो धूमोद्गमो दहनकेतनस्तस्योद्गमेनोर्ध्वगमनेनानुमीयमानं सान्द्रं निविडं वंशवनं वेणुकाननं तेनान्तरितो व्यवहितो वेश्मसंनिवेशो यस्य स तम् । करङ्कप्राया शरीरास्थिबहुला या वृतिरावेष्टकस्तस्यां वाटो निःसरणमार्गो यस्मिन्स तथा । 'बाटो वृतौ च मार्गे च वाटी च गृहनिष्कुटे' इति विश्वः । अस्थीनि प्रायो बाहुल्येन यस्यामेवंविधा रथ्या मार्गस्तस्यामैवकरकूटः संकरसमूहो यस्मिन् । 'संकरावकरौ तुल्यौ' इति हैमः । उत्कृत्तमुत्कल्पितं यन्मांसं पललं मेदोऽस्थिकृद्वसा शुद्धमांसस्य स्नेहोऽसूयुधिरमेतेषां कर्दमः पङ्कः प्रायो बाहुल्येन यस्मिन्नेवंभूतं कुटीराणामजिरमङ्गणं यस्मिन्स तम् । ‘अजिरं चत्वराङ्गणम्' इति हैमः । आखेटकप्रायं आजीवो जीवनं यस्मिन्स तम् । 'आजीवो जीवनं वार्ता जीविका वृत्तिचेतनम्' इति कोशः । पिशितं मांसं प्रायो बाहुल्येनाशनं भोजनं यस्मिन्स तथा तम् । वसा मांसस्नेहः सैव प्रायः स्नेहो यस्मिन्स तथा तम् । कौशेयं कृमिकोशोत्थं तदेव प्रायः परिधानमधोंशुकं यस्मिन्स तथा तम् । 'कौशेयं कृमिकोशोत्थं परिधानं त्वधोंशुकम्' इति हैमः । चर्माजिनं प्रायो बाहुल्येनास्तरणं यस्मिन्स तम् । सारमेयाः कुक्कुरास्त एव प्रायः परिवारो यस्मिन्स तम् । धवली गौः सैंव प्रायो वाहनं युग्यं यस्मिन्सतम् । स्त्रीम एव प्रायः पुरुषार्थः पुरुषप्रयत्नसाध्यः पदार्थो यस्मिन्स तम् । असृग्रुधिरं तदेव प्रायो देवतानां बलिपूजा यस्मिन्स तम् । पशूनामुपहारो बलिः स एव धर्मक्रिया सुकृताचरणं यस्मिन्स तम् । सर्वनरकाणां सर्वदुर्गतानामाकारमिव स्वरूपमिव । सर्वेषामकुशलानामश्रेयसां कारणमिवाकल्याणानां कारणमिव निदानमिव । सर्वेषां श्मशानानां पितृतर्पणानां संनिवेशमिव स्थानकमिव । सर्वेषां पापानामधर्माणामंहसां पत्तनमिव पुटभेदनमिव । सर्वासां यातनानां तीव्रवेदनानामत्यन्तकष्टानामायतनमिव गृहमिव । स्मर्यमाणमपि स्मृतिगोचरीक्रियमाणमपि भयंकरं प्रतिभयावहम् । श्रूयमाणमप्याकर्ण्यमानमप्युद्वेगकरमरतिजनकमसुखनिष्पादकम् । दृश्यमानमप्यालोक्यमानमपि पापजननमंहसामुत्पादकम् । जन्मतः कर्मतश्चातिशयेन मलिना मलिनतरा जना यस्मिन्स तम् । जनतो नीचजनेभ्यः । 'जनो लोके टिप्प० - 1 'क्रीड' धातुरकर्मकः । अत एव 'मृगया' इत्युचितः पाठः । 2 धूमेन वनस्य किमनुमानम् । धूमोद्गमेन अनुमीयमानः सान्द्रवंशवनान्तरितः वेश्मसंनिवेशो यस्मिन् इत्येव विग्रहः । 3 अस्थिप्रायाः ( अस्थिबहुलाः) रथ्यासु अवकरकूटाः ( संमार्जनीक्षिप्त 'जञ्जाल ' राशयः) यस्मिन् तथोक्तम् । एवं व्याख्यातव्यम् । पाठा० - १ संवरण. २ मृगया; मृगयया. ३ आवेद्यमानम् ४ वंशी. ५ वादम्. ६ वसाकर्दम. ७ निःस्पर्शतर. दीनप्रार्थनोत्तरमपि पक्कणे नयनम् - उत्तरभागः । 689

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246