Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 215
________________ 'र मोहान्ध, यस्य शुभाशुभक्रमसाक्षिभूताः पञ्च लोकपालास्तवैवात्मशरीरस्थिता न पश्यन्ति सोऽन्यस्य भयादकार्य नाचरति । तन्नीतोऽसि मया स्वाम्याज्ञया' इत्येवमभिदधान एव मामादाय पक्षणाभिमुखमगच्छत् । अहं तु तेन तद्वचसाभिहत इव मूर्ध्नि, मूकतामापन्नः केषां पुनः कर्मणामिदं मे फलमित्यन्तरात्मनाभिध्यायन्प्राणपरित्यागं प्रति कृतनिश्चयोऽभवम् । नीयमानश्च तथा तेन तन्मोचनप्रत्याशयैवाग्रतो दत्तदृष्टिराविष्टैरिव बीभत्सविन्यासै या॑वृत्तैश्चावर्तकानायपरिभ्रमणानिभृतैश्च मृगावपाटितजीर्णवागुरासंग्रन्थनव्यग्रैश्चोत्रुटितकूटपाशसंग्रन्थनायस्तैश्च हस्तस्थितकाण्डकोदण्डैश्च प्रासप्रचण्डपाणिभिश्च सेलग्राहिभिश्च नानाविधग्राहकविहंगवाचाल - *********** विहस्य स्मितं कृत्वा माब्रवीदभ्यधात् । किं तदित्याह - रे इति । मोहान्ध हे मोहेन गताक्ष, शुभाशुभकर्मणोधर्माधर्मयोः साक्षिभूताः स्थेयीभूता इन्द्रयमवरुणसोमकुबेराख्याः पञ्च लोकपालास्तवैवात्मशरीरस्थिता यस्य न पश्यन्ति नावलोकयन्ति स पुमानन्यस्य भयादकार्यमकृत्यं नाचरति न करोति । अहं तु पञ्चभिर्विलोक्यमानोऽप्यकृतं करोमीति भावः । अतो मम दोषो नास्तीत्याशयेनाह - तदिति । तत्तस्मात्कारणान्मया स्वामिनोऽधीशस्याज्ञया निदेशेन न स्वातन्त्र्येण नीतोऽस्यत्र प्रापितोऽसि । अतो न दूषणं ममेति भावः । इत्येवमभिदधान एवेत्येवं ब्रुवाण एव मामादाय गृहीत्वा पक्कणस्य शबरावासस्याभिमुखमगच्छदगमत् । ___ अहं तु तेन भद्रमुखेन तद्वचसा तद्वाक्येन मूर्ध्नि शिरस्यभिहत इव ताडित इव मूकतामापन्नो मूकभावं प्राप्तः । इदं केषां कर्मणा फलमित्यन्तरात्मनाभिध्यायन्विचारयन्प्राणपरित्यागमसुमोक्षणं प्रति कृतनिश्चयो विहितनिर्णयोऽभवम् । तथा तेन प्रकारेण तेन चाण्डालेन नीयमानश्च तस्माद्यन्मोचनं मोक्षणं तस्य प्रत्याशा वाञ्छा तयैवाग्रतः । पुरो दत्ता दृष्टिर्येन सोऽहं दूरत एव पक्कणं शबरनिवेशमपश्यं व्यलोकयमिति दूरेणान्वयः । इतः पक्कणं विशिनष्टि - आवेष्ट्यमानमिति । आवेष्ट्यमानं परिवेष्टनविषयीक्रियमाणम् । कैस्तदेवाह - आविष्टैरिव भूतग्रस्तैरिव । बीभत्सो रोद्रौ विन्यासो रचना येषां तैः । व्यावृत्तैश्च आखेटकानिवृत्तैः । आवर्त एवावर्तकः । 'आवर्तः पयसां भ्रमः' इत्यमरः । तत्रानायस्य मत्स्यबन्धनस्य परिभ्रमणमितस्ततः परिक्षेपणं तेनानिभृतैश्चञ्चलैः । 'आनायो मत्स्यबन्धनम्' इत्यमरः । मृगैर्हरिणैरवपाटिता विदारिता द्विधाकृता जीर्णवागुरा मृगबन्धनी तस्याः संग्रन्थनं गुम्फनं तेन व्यग्रैक्कुलैः । उत्रुटित उच्छिन्नो यः कूटपाश उन्माथस्तस्य संग्रन्थनं गुम्फनं तेनायस्तैर्व्यग्रैश्च । 'उन्माथः कूटयन्त्र स्यादागुरा मृगबन्धनी' इत्यमरः । हस्तस्थितानि सकाण्डानि सबाणानि कोदण्डानि धषि येषां तैश्च । प्रासैः कुन्तैः प्रचण्डा रौद्राः पाणयो हस्ता येषां तैः । सेलं गृह्णन्तीत्येवंशीलाः सेलग्राहिणस्तैश्च । नानाविधा अनेकप्रकारा ये ग्राहकविहंगाः शिजनैकप्रमुखास्तेषां वाचाल - - - - - - -- टिप्प०-1 'तवेव.. अन्यस्य कस्य... इत्युचितः पाठः । तव शरीरे स्थिताः पञ्च लोकपाला यथा अकार्यं न पश्यन्ति (अत एव त्वया दुष्कृतं कृत्वा फलमिदं भुज्यत इत्याक्षेपो ध्वन्यते) तथा यस्य न पश्यन्ति सः अन्यस्य कस्य वा भयात् अकार्यं नाचरति ? अपि तु अन्यस्य भयनिवृत्तौ अकार्यमाचरत्येव । (मा मुञ्चन् न त्वं विलोकित इति कुतो दोष इत्यस्य प्रत्युत्तरमिदम्) । 2 भाषायां प्रसिद्ध स्यान संस्कृते, 'भल्लग्राहिभिश्च' इत्येव पाठः । 3 मध्यगतानि 'लगुडिभिश्च' इत्यादीनि विशेषणान्यपि नीचैः पाठान्तरे द्रष्टव्यानि । - - - - - पाटा० - १ तथैव. २ आत्मशरीरे स्थिताः; आत्मस्थिताः. ३ अन्यस्य कस्य. ४ आत्मनो मोचन. ५ बीभत्सविन्यासैावृत्तैश्च वर्तकानादाय परिभ्रमणानिवृत्तैश्च; बीभत्सुविन्यासैावृत्तैश्च वर्तकानामुपरि भ्रमणनिभृतेश्च. ६ निग्रन्थन; ग्रन्थन. ७ पाशप्रचण्डदण्ड; प्रसरद्दण्डप्रचण्ड. ८ भल्लग्राहिभिश्च लगुडिभिश्च लासकग्राहिभिश्च. ९ सेलग्राहक. १० वाचालकुशलैः; वाचालनाकुशलैः. 688 कादम्बरी। कथायाम्-)

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246