Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 233
________________ मेव तेषामचेतितैव सा क्षणदा प्रयाता । प्रातरेव च सकलगन्धर्वलोकानुगतौ सममेचिरागौरीभ्यां चित्ररथहंसौ गन्धर्वराजावपि तत्रैवाजग्मतुः । आगतयोश्च तयोर्लज्जितात्मजोपगममुदितहृदययोर्जामातृदर्शनसमुत्फुल्लनयनयोस्तारापीडशुकनासाभ्यां सहानुभूतसंबन्धकोचितसंवादकथयोः सहस्रगुण इव महोत्सवः प्रावर्तत । 1 अथ प्रवर्तमान एव तस्मिंश्चित्ररथस्तारापीडमवादीत् - 'विद्यमाने स्वभवने किमर्थमयमरण्ये महोत्सवः क्रियते ? अपि च यद्यप्यस्माकमयमेव परस्पराभिरुचिनिष्पन्नो धर्म्याविवाहस्तथापि लोकसंव्यवहारोऽनुवर्तनीय एव । तद्गम्यतां तावदस्मदीयमवस्थानम् । ततः स्वभूमिं चन्द्रलोकं वा गमिष्यथ ।' तारापीडस्तु तं प्रत्यवादीत् - 'गन्धर्वराज, यत्रैव निरतिशयं संपत्सुखं तदेव वनमपि भवनम् । तदीदृशं क्वापरत्र संपत्सुखं प्राप्तम् ? अन्यच्च संप्रति सैर्वगृहाण्येव मया जामातरि ते संक्रामितानि । तद्वयस्य, वधूसमेतं तमेवादाय गम्यतां गृहसुखानुभवनाय' इति । चित्ररथस्तु तथाभिहितः ‘रौजर्षे, यथा ते रोचते' इत्युक्त्वा चन्द्रापीडमादाय हेमकूटमगात् । गत्वा च चित्ररथः कादम्बर्या सह समग्रमेव स्वं राज्यं चन्द्रापीडाय न्यवेदयत् । पुण्डरीकायापि समं महाश्वेतया निजपदं हंसो न्यवेदयत् । तौ तु हृदयरुचितवधूलम्भमात्रकेणैव कृतार्थो न किंचिदप्यपरं प्रत्यपद्येताम् । **: ***** सर्वेषामेव तेषामचेतितैवाज्ञातैव सा क्षणदा रात्रिः प्रयाता गता । प्रातरेव च प्रत्यूषे च सकलगन्धर्वलौकैः समग्रदेवगायनजनैरनुगतौ सहिता - वचिरागौरीभ्यां महाश्वेताकादम्बरीजननीभ्यां समं चित्ररथहंसौ कादम्बरीमहाश्वेतापितरौ गन्धर्वराजौ गन्धर्वनायकावपि तत्रैवाजग्मतुराययतुः । आगतयोश्च तयोर्लज्जिते त्रपिते ये आत्मजे पुत्र्यौ तयोरुपगमः प्राप्तिस्तेन मुदितं हर्षितं हृदयं ययौस्तौ तयोर्जामातृदर्शनेन दुहितुः पत्यवलोकनेन समुत्फुल्ले विकसिते नयने ययोस्तौ तयोः । क्वचित् 'वदनयोः' इति पाठः । तारापीडशुकनासाभ्यां सहानुभूतः संजातो यः संबन्धकस्तस्योचिता योग्याः संवादकथा ययोस्तौ तयोः सहसगुण इव महोत्सवः प्रावर्तत प्रवृत्तोऽभूत् । अथेति । तदनन्तरं प्रवर्तमाने संजायमान एव तस्मिन्महोत्सवे चित्ररथस्तारापीडमवादीदब्रवीत् । तदेवाह - विद्यमान इति । स्वभवने स्वकीय विद्यमाने वर्तमानेऽयं महोत्सवः किमर्थं किंप्रयोजनमरण्ये क्रियतेऽटव्यां विधीयते । अपि च प्रकारान्तरे । यद्यप्यस्माकमयमेव परस्परमन्योन्यं याऽभिरुचिरभिलाषस्तया निष्पन्नो धर्म्या विवाहस्तथापि लोकसंव्यवहारोऽनुवर्तनीय एव रक्षणीय एव । तदस्मदीयमास्माकीनमवस्थानमास्पदं तावद्गम्यताम् । ततस्तदनन्तरं स्वभूमिं चन्द्रलोकं वा गमिष्यथ यास्यथ । तारापीडस्तु तं चित्ररथं प्रत्यवादीव्प्रत्यवोचत् । हे गन्धर्वराज, यत्रैव निरतिशयमधिकं संपत्सुखं तदेव वनमपि भवनं गृहम् । तदीदृशमपरत्रान्यत्र क्व कुत्र मया संपत्सुखं प्राप्तं लब्धम् । अन्यच्च संप्रतीदानीं सर्वगृहाण्येव मया ते तव जामातरि दुहितुः पत्यौ संक्रामितानि संकल्पितानि । तत्तस्माद्धेतोर्हे वयस्य हे मित्र, वधूसमेतं तमेव वरमेवादाय गृहीत्वा गृहसुखस्यानुभवनं साक्षात्करणं तस्मै गम्यतां व्रज्यताम् । चित्ररथस्तु तथाभिहितस्तेन प्रकारेणोक्तः राजर्षे, यथा ते तुभ्यं रोचते इत्युक्त्वा चन्द्रापीडमादाय हेमकूटमगाद्ययौ । गत्वा च चित्ररथः कादम्बर्या सह समग्रमेव सकलमेव स्वमात्मीयं राज्यं चन्द्रापीडाय न्यवेदयन्निवेदितवान् । पुण्डरीकायापि महाश्वेतया समं निजपदं हंसो न्यवेदयत् । तौ तु चन्द्रापीडपुण्डरीकौ तु हृदये चित्ते रुचिते ईप्सिते ये वध्वौ तयोर्लम्भमात्रकेणैव प्राप्तिमात्रकेणैव कृतार्थी कृतकृत्यौ न किंचिदप्यपरमन्यव्यत्यपद्येतां स्वीकुर्वाताम् । टिप्प० - 1 'मदिरा' इत्यभिधाऽत्र परिभावनीया । पाठा० - १ प्रभाता. २ मदिरा. ३ सर्वगृहसुखान्येव. ४ राजर्षिणा. 706 कादम्बरी । कथायाम्

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246