Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 234
________________ अन्यदा जन्माभिवाञ्छितहृदयवल्लभलाभमुदितसर्वस्वजनमध्योपगमननिर्वृतापि कादम्बरी बाष्पोत्तरललोचना विषण्णमुखी . वासभवनागतं चन्द्रापीडमूर्ति चन्द्रमसमप्राक्षीत् - 'आर्यपुत्र, सर्वे खलु वयं मृताः सन्तः प्रत्युज्जीविताः परस्परं संघटिताश्च । सा पुनर्वराकी पत्रलेखास्माकं मध्ये न दृश्यते । न विद्मः किं तस्याः केवलाया वृत्तम् ?' इति । चन्द्रापीडमूर्तिः प्रीतान्तरात्मा तां प्रत्यवादीत् - "प्रिये, कुतोऽत्र सा हि खलु मदुःखदुःखिनी रोहिणी शप्तं मामुपश्रुत्य 'कथं त्वमेकाकी मर्त्यलोकनिवासदुःखमनुभवसि' - इत्यभिधाय निवार्यमाणापि मया प्रथमतरमेव मच्चरणपरिचर्यायै मर्त्यलोके जन्माग्रहीत् । इतश्च जन्मान्तरं गच्छता मया मदुपरमसममुन्मुक्तशरीरा पुनरपि मर्त्यलोकमवतरन्ती बलादावयात्मलोकं विसर्जिता तत्र पुनस्तां द्रक्ष्यसि" इति । कादम्बरी तु तच्छ्रुत्वा रोहिण्यास्तदोदारतया स्नेहलतया महानुभावतया संपतिव्रततया पेशलतया च विस्मितहृदया परं लज्जिता न किंचिदपि वक्तुं शशाक । अत्रान्तरे जन्मद्वयाकाङ्कितं कालं प्रभोश्चन्द्रमसः कादम्बरीसंभोगसुखमिवोपपादयितुम - *********** अन्यदान्यस्मिन्काले जन्मन्यभिवाञ्छितो यो हृदयवल्लभलाभस्तेन मुदिता हर्षिताः सर्वे ये स्वजनाः कुटुम्बिनस्तेषां मध्योपगमनं मध्ये समागमनं तेन निर्वृतापि सुखं प्राप्तापि च कादम्बरी बाष्पेणाश्रुणोप्राबल्येन तरले चञ्चले लोचने यस्याः सा । विषण्णं खेदाकुलं मुखं यस्याः सा । वासभवनागतं वसतिसद्मागतं चन्द्रापीडमूर्तिं चन्द्रापीडशरीरं चन्द्रमसं शशाङ्कमप्राक्षीलप्रश्नं कृतवती । इतिद्योत्यमाह - आर्येति । हे आर्यपुत्र, सर्वे खलु वयं मृताः सन्तः प्रत्युज्जीविताः परस्परमन्योन्य संघट्टिताः मिलिताश्च । सा पुनराकी तपस्विनी पत्रलेखैकास्माकं मध्ये न दृश्यते न दृग्गोचरीक्रियते । न विद्मो न जानीमस्तस्याः केवलाया एकाकिन्याः किं वृत्तं किं जातम् । चन्द्रापीडमूर्तिः प्रीतान्तरात्मा संतुष्टात्मा तां कादम्बरी प्रत्यवादीप्रत्यवोचत् - हे वल्लभे, अत्र सा पत्रलेखा कुतः स्यात् । हि यस्मात्कारणात् । खल्विति निश्चये । मम दुःखेन दुःखिनी एवंविधा रोहिणी ब्राह्मी शप्तं शापग्रस्तं मामुपश्रुत्याकर्ण्य कथं त्वमेकाक्यसहायो मर्त्यलोकनिवासदुःखं मनुष्यनिवसनकष्टमनुभवस्यनुभवविषयीकरोषीत्यभिधायेत्युक्त्वा निवार्यमाणापि प्रतिषिध्यमानापि मया चन्द्रमसा प्रथमतरमेवादावेव मम चन्द्रमसश्चरणपरिचर्यायै पादसेवाय मर्त्यलोके मनुष्यक्षेत्रे जन्माग्रहीत् । इतश्च जन्मान्तरं भवान्तरं गच्छता व्रजता मया चन्द्रमसा मदुपरमेण सममुन्मुक्तं शरीरं यया सा पुनरपि द्वितीयवारमपि मर्त्यलोकमवतरन्त्यवतारं गृह्णन्ती बलाद्धठादावावर्जनां कृत्वात्मलोकं चन्द्रलोकं विसर्जिता । प्रेषितेत्यर्थः । तत्र संप्रति पुनस्तां द्रक्ष्यसि विलोकयिष्यसीति । कादम्बरी तु तछ्रुत्वा तदाकर्ण्य रोहिण्यास्तदोदारतया स्नेहलतया वत्सलतया महानुभावतया महाप्रभावतया सपतिव्रततया एकपतितया पेशलतया सहृदयतया च विस्मितहृदया चमत्कृतचित्तापरमत्यन्तं लज्जिता लज्जा प्राप्ता न किंचिदपि वक्तुं कथयितुं शशाक समर्था बभूव । __ अत्रान्तरेऽस्मिन्समये जन्मद्वयाकाङ्कितं भवान्तरद्वयाभिलषितं कालं प्रभोश्चन्द्रमसः कादम्बरीसंभोगसुखमि - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 हृदयवल्लभलाभः कादम्बर्या न तु सर्वेषाम् । अतएव - 'जन्माभिवाञ्छितहृदयवल्लभलाभमुदिता सर्वस्वजनमध्योपगमननिर्वृतापि' इत्युचितः पाठः । 2 संभोगसुखमुपपादयितुमिव वासरः अपससार, तर्हि 'कालम्' किं कर्तुम् ? तस्मात् 'कालप्रभोः' इत्युचितः पाठः । कालप्रभोः कालनियन्तुश्चन्द्रमसः जन्मद्वयाकाङ्कितं कादम्बरीसंभोगसुखमुपपादयितुमिव वासरोऽपससारेत्यन्वयः । पाठा० - १ उपयमन. २ वयं खलु. ३ अर्दित. ४ दुःखिता. ५ प्रथमम्. ६ दिवश्च. ७ आतw. ८ अमरलोकम्. ९ तया; तथा. १० सपतिव्रतया; पातिव्रततया. ११ कालप्रभोः. (चन्द्रापीडपुण्डरीकयोर्विवाहः । उत्तरभागः। 707)

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246