Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
चण्डालैः सहैकत्र स्थातव्यम् । जेरन्मातङ्गाङ्गनाकरोपनीतैः कवलैरात्मा पोषणीयः । चण्डालबालकजनस्य क्रीडनीयेन भवितव्यम् । दुरात्मन् पुण्डरीकहतक, धिग्जन्मलाभं ते, यस्य कर्मणामयमीदृशः परिणामः, किमर्थं प्रथमगर्भ एव न सहस्रधा शीर्णोऽसि ? मातः श्रीः, अशरणजनशरणचरणपङ्कजेऽतिगहन भीषणाद्रक्ष मामस्मान्महानरकपातात् । तात भुवनत्रयत्राणक्षम, त्रायस्व कुलतैन्तुमेकम् । त्वयैव संवर्धितोऽस्मि । वयस्य कपिञ्जल, यदि परापत्य त्वयास्मात्पापान्न मोचितोऽस्मि तदा जन्मान्तरेपि पुनर्मा कृथा मत्समागमप्रत्याशाम्' इति । एतानि चान्यानि च चेतसा विलप्य पुनस्तमभ्यर्थनादीनमवदम् - ‘भद्रमुख, जातिस्मरो मुनिरस्मि जात्या । तत्तवापि मामस्मान्महतः पापसंकटादुद्धृत्य धर्मो भवत्येवादृष्टसुखहेतुः । दृष्टेऽपि च केनचिदपरेणादृष्टस्य मन्मुक्तिकृतः प्रत्यवायो नास्त्येव । तन्मुञ्चतु मां भद्रमुखः ' इत्यभिदधानश्च पादयोरपतम् । स तु विहस्य मामब्रवीत् -
प्रवेशः कर्तव्यः । चण्डालैरन्तेवासिभिः सहैकत्रैकस्मिन्स्थाने स्थातव्यमवस्थानं कर्तव्यम् । जरत्यश्च ता मातङ्गानामङ्गनाः स्त्रियो युवत्यश्च तासां करोपनीतैर्हस्तानीतैः कवलैर्गण्डोलकैरात्मा पोषणीयः । चण्डालबालकजनस्य क्रीडनीयेन क्रीडां कर्तुं योग्येन भवितव्यम् । हे दुरात्मन् हे पापात्मन्, हे पुण्डरीकहतक हे पुण्डरीकमारक, ते तव जन्मलाभं धिगस्तु । यस्य कर्मणामयमीदृशः परिणामो विपाकः । प्रथमगर्भे एव सहस्रधा सहसंप्रकारेण किमर्थं न शीर्णः शटितोऽसि । हे मातः श्रीः, अशरणजनानां शरणमाश्रयं चरणपङ्कजं चरणकमलं यस्यास्तस्याः संबोधनम् । अतिगहनं दुरवगाहनं च तद्भीषणं चेति कर्मधारयः । अतिगहनं भीषणं तस्मादस्मान्महानरकपातान्महादुर्गनिपतनात्त्वं मां वैशम्पायनं रक्ष पाहि त्राहि । तस्मात्कारणाद्धे तात हे पितः हे जनक, भुवनत्रयस्य विष्टपस्य त्राणं रक्षणं तत्र क्षम समर्थ, एकं कुलतन्तुं कुलपांसुल वा मां त्रायस्व रक्ष । 'पांसुलः पुंश्चले शंभो: खट्वाङ्गे पांसुला भुवि' इति विश्वः । त्वयैव भवतैव संवर्धितोऽस्मि वृद्धिं प्रापितोऽस्मि । हे वयस्य कपिञ्जल, यदि परापत्यागत्य त्वयास्मात्पापान्न मोचितोऽस्मि न त्याजितोऽस्मि तदा जन्मान्तरेऽपि भवान्तरेऽपि गतजन्मन्यपि पुनर्मत्समागमप्रत्याशां मन्मेलापकस्पृहां मा कृथा मा व्यधत्था इत्येतानि चान्यानि च चेतसा मनसा विलप्य विलापं कृत्वा पुनस्तमभ्यर्थना प्रार्थना तया दीनं यथा स्यात्तथावदमवोचम् । हे भद्रमुख हे कल्याणमुख, जातिस्मरो निजजातिस्मरणवानहं जात्या मुनिरस्मि जन्मना यतिरस्मि । तत्तस्मात्कारणाज्जात्या कृत्वा मामस्मात्पापसंकटात्पापकष्टादंहः कष्टादुद्धृत्योद्धारं कृत्वा तवाप्यदृष्टश्चासौ सुखहेतुश्चेति कर्मधारयः । एवंविध धर्मो भवत्येव । दृष्टेऽपि दूषणं नास्तीत्याशयेनाह - दृष्टेऽपीति । अदृष्टस्यानवलोकितस्य मन्मुक्तिकृतो मन्मोचनकर्तुरपरेण केनचिद्दृष्टेऽपि वीक्षितेऽपि प्रत्यवायः प्रायश्चित्तं नास्त्येव । 'धर्मः क्षरति कीर्तनात्' इति स्मृतेः । तेन दृष्टादृष्टसुकृतसमाचरणेऽपि न दोष इति ध्वनितम् । तदिति हेत्वर्थे । एष भद्रमुखो मां मुञ्चतु त्यजत्वित्यभिदधान इतिब्रुवाणश्चाहं पादयोश्चरणयोरपतं पतितवान् । स तु भद्रमुखो -
टिप्प० - 1 आगामिजन्मन्यपीति योग्यम् । 2 अदृष्टसुखहेतुर्धर्मस्तु भवेदेव, किन्तु दृष्टेऽपि दर्शनविषयेऽस्मिन् लोकेपि, केनचिदन्येन अवीक्षितस्य मम मोचनं कुर्वतस्ते दोषो नास्ति । पूर्वं मां निबद्ध्य ततो मुक्तवानिति न त्वं केनचिदृष्टः । अतो न ते स्वामिदुहितुः सविधे दोषोद्घोषः स्यादित्याशयः । 'मामुद्धृत्य ते धर्मो भवेत्' इति यदि ग्रन्थस्य यथास्थितं वाक्यं ? तर्हि समाधानसापेक्षम्, उद्धृत्य इति उद्धारस्य त्वं कर्ता, भवेत् इत्यस्य च धर्मः कर्ता । क्त्वाप्रत्यये च द्वयोरेककर्तृकत्वमपेक्षितमित्यलं पौरोभाग्येन ।
पाठा० - १ जनगमानां करोपनीतैः; जनङ्गमाङ्गनयोपनीतैः २ कर्मणः ३ पांशुलम्. ४ भवेत्. ५ ते; च ते. ६ पुनः पुनः पादयोः.
दीनप्रार्थनोत्तरमपि पक्कणे नयनम्
उत्तरभागः ।
687
Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246