Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
दारुपञ्जरे समं महाश्वेतावलोकनमनोरथैराक्षिप्यार्गलितद्वारा सा मामवदत् - 'यथात्र निर्वृतः संप्रति तिष्ठ' इत्यभिधाय तूष्णीमस्थात् ।
अहं तु तथा संरुद्धश्चेतस्यकरवम् - ‘महासंकटे पतितोऽस्मि । यदि तावदावेदितात्मावस्थः शिरसा प्रणिपत्य मुक्तये विज्ञापयाम्येनां तदा य एव मे गुणो दोषतामापद्य बन्धायोपजातः स एव संवर्धितो भवति । साधु जल्पतीत्येवाहमनया ग्राहितः । कास्या मदीयया बन्धपीडया पीडा । नाहमस्यास्तनयो न भ्राता न बन्धुः । अथ मौनमालम्ब्य तिष्ठामि, तंत्रापि शाठ्यप्रकुपिता कदाचिदतोऽप्यधिकामवस्थां प्रापयति माम् । नृशंसतमा हि जातिरियम् । अथवा वरमितोऽप्यधिकमुपजातं न पुनश्चाण्डालैः सह वागपि विमिश्रितो । अपि च गृहीतमौनं निर्वेदात्कदाचिन्मुञ्चत्येव । वदंस्तु पुनर्न मोक्तव्य एवाहमनया । अपि च यदिव्यलोकभ्रंशः, यन्मर्त्यलोके जन्म, यत्तिर्यग्जातौ पतनम्, यच्चाण्डालहस्तागमनम्, यच्चेदमेवंविधं पञ्जरबन्धदुःखम्, सर्व एवायमनियतेन्द्रियत्वस्यैव दोषः । तत्किमेकयो वाचा, -
***********
यानि पानभोजनपात्राणि यस्मिन्मनागीषदुद्घाटितमुन्मुद्रित द्वारं यस्मिन्नेतादृशे दारुपञ्जरे काष्ठनिर्मितविहंगरक्षणे महाचेतावलोकनमनोरथैः महाश्वेतानिरीक्षणमनोरथैः सममाक्षिप्य निवेश्य स्थापयित्वार्गलितं द्वारं यया सा मामवददवोचत् । यथा अत्र स्थलेऽत्र स्थाने संप्रतीदानीमधुना निर्वृतः सुखी तिष्ठ । इत्यभिधायेत्युक्त्वा तूष्णीं जोषं मौनमस्थात्तस्थौ ।
अहं तु तथाप्रकारेण संरुद्धो निरुद्धश्चेतसि मनस्यन्तःकरणेऽकरवं व्यधाम् । महासंकटे महाकष्टे पतितोऽस्मि निक्षिप्तोऽस्मि । यदि तावदादावावेदिता निवेदिता कथिता आत्मनोऽवस्था दशा येनैवंभूतोऽहं शिरसा प्रणिपत्य मस्तकेन नमस्कृत्यैनां चण्डालदारिका विज्ञापयामि विज्ञप्ति करोमि तदा य एव मे मम गुणो वक्तृत्वलक्षणो दोषतां दूषणतामापद्य प्राप्य बन्धाय बन्धहेतुरुपजात उत्पनः प्राप्तः स एव दोषतां दूषणत्वं प्राप्तो गुणः संवर्धितो वृद्धिं नीतो भवति । तदेव दर्शयति - साध्विति । साधु जल्पति शुभं वदतीत्येवं हेतोरनयाहं ग्राहितो ग्रहणं कारितः । अस्याश्चण्डालदारिकाया मदीयया बन्धपीडनया का पीडा । एतदेव विशेषतो दर्शयन्नाह - नेति । अहमस्यास्तनयः सुतो न, न भ्राता सहोदरः, न च बन्धुः स्वजनः । अथेति प्रकारान्तरे । यदि मौनमालम्ब्य तूष्णीं भूत्वा तिष्ठामि तत्रापि तत्कृतेऽपि शाठ्येन प्रकुपिता रोषिता सती अतोऽप्यधिकां विशेषाधिकामवस्थां दशां कदाचिन्मां प्रापयति नयति । हि यस्मात्कारणादियं नृशंसतमा क्रूरतमा जातिः । अथवेति पक्षान्तरे । इतोऽप्यस्मादप्यधिकमुपजातं वरं शुभम् । तत्रार्थे हेतुमाह - न पुनरिति । चाण्डालैः सह वागपि विमिश्रिता प्रत्युत्तरप्रदानेन संसक्तीकृता । मौनावस्थायां गुणं प्रदर्शयन्नाह - अपि चेति । कदाचिदिति संभावनायाम् । निर्वेदात्स्वावमानाद् गृहीतमौनं स्वीकृतावचनव्यापार मां मुञ्चत्येव मोचनं विदधात्येव । वदस्तु जल्पस्त्वहमनया चण्डालदारिकया न मोक्तव्य एव न त्यजनीय एव । अपि चेति युक्त्यन्तरे । यद्दिव्यलोकाद् भ्रंशः पातः, यन्मर्त्यलोके मनुष्यलोके जन्मोत्पत्तिः, यत्तिर्यग्जातौ पक्षिजातौ पतनं पातः, यच्चाण्डालस्य श्वपचस्य हस्ते गमनं यानम्, यदेवंविधमेतादृशं पञ्जरबन्धदुःखम् । यत्तदोर्नित्याभिसंबन्धादाह - सर्वेति । स सर्वोऽयमनियतेन्द्रियत्वस्यैवानियन्त्रितेन्द्रियस्यैव दोषो दूषणम् । तत्किमेकया वाचा स्यात् । सर्वाण्येवेन्द्रियाणि -
पाटा० - १ द्वारपिधाना. २ समवदत्; समावेदयत्. ३ संनिवृत्ता. ४ पञ्जरे संरुद्धः. ५ अहो संकटे. ६ संजल्पति. ७ कस्याः. ८ तत्रापि; तथापि. ९ प्रकोपिता. १० अतोऽभ्यधिककष्टतरम्. ११ उपनतम्. १२ मिश्रिता. १३ दिव्यलोकतो भ्रंशः. १४ तिर्यग्योनौ. १५ तत्किं मम.
चण्डालकन्यकया पजरबन्धः
उत्तरभागः।
Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246