Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 217
________________ लोकहृदयेभ्योऽपि निघृणतरसर्वसंव्यवहारसमस्तपुरुषम्, अविशेषाचारवालयवस्थविरम्, अव्यवस्थितगम्यागम्याङ्गनोपभोगम्, अपुण्यकर्मैकोपणं पक्कणमपश्यम् । दृष्ट्वा च तं तादृशं नरकवासिनोऽप्युद्धेगकरं समुत्पन्नघृणोऽन्तरात्मन्यकरवम् - 'अपि नाम सा चाण्डालदारिका दूरत एव मामालोक्योत्पन्नकरुणा मोचयेत् ? न जातिसदृशमाचरिष्यति ? भविष्यन्त्येवंविधानि मे पुण्यानि ? न निमेषमप्यत्र पदं कुर्याम्' इत्येवं कृताशंसमेव मां नीत्वा स चण्डालस्तदा दुर्दर्शनाकारवेषायै दूरतः स्थितः प्रणम्य 'एष स मया प्राप्तः' इति तस्यै चण्डालदारिकायै दर्शितवान् । सा तु प्रहृष्टतरवदना 'शोभनं कृतम्' इति तमभिधाय तत्करात्स्वकरयुगेनादाय माम् ‘आः पुत्रक, प्राप्तोऽसि । सांप्रतं क्वापरं गम्यते । व्यपनयामि ते सर्वमिदं कामचारित्वम्' इत्यभिदधानैव धावमानचण्डालबालकोपनीतेऽर्धाश्यानलोमशदुर्गन्धिगोचर्मवध्रिकावनद्धे दृढबद्धदारुमयपानभोजनपात्रे मनागुद्घाटितद्वारे - *********** महर्लोकात्परलोके च पामरे' इति विश्वः । अतिशयेन निस्त्रिंशं निस्त्रिंशतरमतिक्रूर लोकानां हृदयं यस्मिन्स तथा तम् । 'क्रूरे नृशंसनिस्त्रिंश-' इति हैमः । लोकहृदयेभ्य इतरजनचित्तेभ्योऽपि निघृणतरो निर्दयतरः सर्वः संव्यवहारो व्यवहृतिर्येषामेवंविधाः समस्ताः समग्रा : पुरुषा यस्मिन्स तम् । अविशेषो विशेषवर्जित आचारो येषामेवंभूता बालयुवस्थविराः पाकतरुणज्यायांसो यस्मिन्स तम् । अव्यवस्थितोऽनिश्चितो गम्यागम्याङ्गनायाः सेव्यासेव्यस्त्रिय उपभोगो यस्मिन्स तम् । अपुण्यकर्मणामश्रेयसकृत्यानामेकमद्वितीयमापणं हट्टमहं पक्कणमपश्यमित्यन्वयस्तु पूर्वमुक्तः। नरकवासिनोऽपि दुर्गतिस्थायिनोऽप्युद्धेगकरमरतिकरं तं तादृशमुक्तस्वरूपं दृष्ट्वा निरीक्ष्य च समुत्पन्नघृणः संजातजुगुप्सोऽन्तरात्मनि चित्तेऽकरवमकल्पयम् । किं तदित्याह - अपीति । अपि नाम कोमलामन्त्रणे । सा चाण्डालदारिका म्लेच्छबालिका दूरत एव दविष्ठत एव मामालोक्योत्पन्नकरुणा संजातकारुण्या मोचयेन्मुक्ति कुर्यात् ? जातिसदृशं कुलतुल्यं नाचरिष्यति न करिष्यति । एवंविधानि मे मम पुण्यानि श्रेयांसि भविष्यन्ति । निमेषमप्यक्षिस्पन्दनमात्रमप्यत्र पदं स्थानं न कुर्यां न विदध्याम् । इत्येवंप्रकारेण कृता विहिताशंसा स्पृहा वाञ्छा येनैवंभूतमेव मां नीत्वा स चण्डालो दुर्दर्शन आकारो वेषश्च यस्याः सा तस्यै दूरतः स्थितः प्रणम्य नमस्कृत्य स एष मया प्राप्त इति तस्यै चण्डालदारिकायै दर्शितवान्दृग्गोचरीकारितवान् । सा तु चण्डालदारिका प्रहृष्टतरं प्रमुदिततरं वदनं मुखं यस्याः सा, शोभनं शुभं कृतमिति तं भद्रमुखमभिधाय तत्करात्तत्पाणेस्तद्धस्तात्स्वकरयुगेनात्महस्तयुगेन स्वीयपाणिद्वयेनादाय गृहीत्वा माम् । आः पुत्रक सुत, त्वं प्राप्तोऽसि । अतोऽस्मात्स्थानादिति गम्यम् । सांप्रतं क्वापरमग्रे गम्यते गमनं क्रियते । ते तव सर्वं कामचारित्वं स्वेच्छाविहारित्वं व्यपनयामि दूरीकरोमि । इत्यभिदधानैवेति ब्रुवाणैव धावमानस्त्वरितगत्या गच्छमानो यश्चण्डालबालकस्तेनोपनीत आनीतेऽर्धमाश्यानं शुष्कं लोमशं लोमयुक्तं दुर्गन्धि विसगन्धि यद्गोचर्म तस्य वधिका नथ्रीतयावनद्धे बद्धे । 'पूतिगन्धिस्तु दुर्गन्धो विसं स्यादामगन्धि यत्' इत्यमरः । दृढं बद्धानि दारुमयानि काष्ठम - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'नाचरेत् ?' इत्युचितः पाठः, पूर्वप्रयुक्तेन लिङा समन्वयात् । सर्वत्र च आरम्भोपात्तेन अपिना सूचितः प्रश्नो वाक्यार्थः । 2 अग्रे सेयं शापभ्रष्टा लक्ष्मीः संपत्स्यते । नास्या वैरूप्यं कवेरभिप्रेतम्, अत एव 'अनुद्धततरवेषायै (न उग्रतरः 'सौम्यः वेषो यस्याः) इति पाठः । पाठा० - १ व्यवहार. २ समस्तपुरुष एककारणम्. ३ नरकवासिनाम्. ४ अशुद्धतरवेषायै. ५ दूरस्थितः; दूरत एवावस्थितः. ६ युगलेन. ७ बहुलबालक. ८ अर्घश्यान. 690 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246