Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 225
________________ ष्काननेन, मुषितवचनावकाशेनापि वैशम्पायनंक्रोशनपरेण, अनवरतमा चरणाद्विकीर्णचन्दनचर्चेन, चरणतलनिवेशितार्द्रारविन्दिनीदलेन, करार्पितकर्पूरक्षोददन्तुरतुषारखण्डेन, हृदयविनिहितहिमार्द्रहारदण्डेन, कपोलतलस्थापितस्फेटिकमणिदर्पणेन, ललाटतटघटितचन्द्रमणिना, अंसदेशावस्थापितर्मृणालनालेन, कदलीदलव्यजनवाहिना, आनर्तित - तालवृन्तेन, जलार्द्रानिलसंचारिणा, कुसुमतल्पकल्पनाकुलेन, धारागृहजलयन्त्रप्रवर्तनाहृतार्तिना, मणिकुट्टिमक्षालनाग्रहस्तेनं च, 'संजलकिञ्जल्कजलजोपचारप्रकरसंभ्रान्तेन च शिशिर भूगृहाभ्यन्तरप्रत्यवेक्षणदक्षेण चोद्यानदीर्घिकातटलतागहनमण्डपसेकैतापहारिणा च मैलयजरसचन्द्रार्द्रजलचन्द्राश्रयावधानदानोद्यतेन चाप्तपरिजनेनोपचर्यमाणस्यापि काष्ठीभूतदेहस्य दाहक्षमो झटित्येवारुरोह परां कोटिं कामानलः । राज्ञ एव तुल्यावस्थस्य महाश्वेतोत्कण्ठया पुण्डरीकात्मनो वैशम्पायनस्य च । प्युच्छुष्कमाननं मुखं यस्य स तेन । मुषितो गृहीतो वचनस्यावकाशोऽवगाहः प्रवेशस्थलं यस्यैवंभूतेनाप्याक्रोशनं तत्र परेणासक्तेनानवरतं निरन्तरमाचरणाच्चरणौ मर्यादीकृत्य विकीर्णा विक्षिप्ता चन्दनचर्चा मलयजपूजा येन स तेन । चरणतले निवेशितानि स्थापितान्यार्द्रायुन्नान्यरविन्दिनीनां दलानि कमलिनीनां पत्राणि येन स तथा तेन । करे हस्तेऽर्पितः प्रदत्तो वितरितः कर्पूरक्षोदेन घनसारचूर्णेन दन्तुरो विषमोन्नतस्तुषारखण्डो हिमशकलं यस्य स तथा तेन । हृदये वक्षसि विनिहितः स्थापितो हिमेनार्द्रा हारदण्डो येन स तथा तेन । कपोलतले स्थापितो विधृतः स्फटिकमणिदर्पणो येन स तथा तेन । ललाटतटेऽलिकतटे घटितः संघट्टितश्चन्द्रमणिश्चन्द्रकान्तो येन स तथा तेन । अंसदेशे स्कन्धप्रदेशेऽवस्थापितं न्यस्तं मृणालनालं बिसनालं येन स तथा तेन । कदलीदलानां रम्भापत्राणां व्यजनं वहतीत्येवंशी - नानर्तितो भ्रमं नीतस्तालवृन्तो येन स तथा तेन । जलेनाम्भसार्द्रा योऽनिलो वायुस्तं संचारयति प्रवर्तयतीत्येवंशीलः स तथा तेन । कुसुमैः पुष्पैर्या तल्पकल्पना शय्याविरचना तेनाकुलेन व्याकुलेन । धारागृहस्य जलयन्त्राणां प्रवर्तनात्प्रक्षरणादा ईषद्धेता दूरीकृतार्तिर्यस्य स तेन । मणिकुट्टिमस्य क्षालना धावनं तत्राग्रहस्तो यस्य स तेन । 'आयस्तेन' इति पाठ आयस्तेन खिन्नेनेत्यर्थः । सजलानि जलसहितानि किञ्जल्कजलजानि केसरोपयुक्तकमलानि तेषामुपचारः प्रकार उपचरणं तेन संभ्रान्तेन मूढेन । शिशिरं शीतलं यद्भूगृहं भूमिस्थं सदनं तस्य अभ्यन्तरं मध्यं तस्य प्रत्यवेक्षणं गवेषणं तत्र दक्षेण चतुरेण । उद्यानस्य दीर्घिका वापी तस्यास्तटं तीरं तस्य लतागहनमण्डपो जनाश्रयस्तत्र यः सेकः सिञ्चनं तेन तापमपहरतीत्येवंशीलः स्वभावः स तथा तेन । मलयजरसश्चन्दनद्रवश्चन्द्रः कर्पूर आर्द्रं जलं चन्द्रस्य शशाङ्कस्याश्रय आश्रयणमेतैरवधानदानं समाधिदानं तत्रोद्यतेनोद्युक्तेन । 'अवधानसमाधानप्रणिधानानि तु समाधौ स्युः' इति हैमः । आप्तो विश्वस्तो यः परिजनः परिच्छदस्तेनोपचर्यमाणस्योपचारविषयीक्रियमाणस्यापि काष्ठीभूतदेहस्य दारुसादृश्यमापन्नशरीरस्य दाहे क्षमः समर्थः कामानलो मदनवह्निः क्षणेन परां कोटिं झटित्येव तत्कालमेवारुरोहारूढवान् । राज्ञ एव तुल्यावस्थस्य सदृशावस्थस्य महाश्वेताया उत्कण्ठयोत्कलिकया पुण्डरीकात्मनो वैशम्पायनस्य च । मदनानलः परां कोटिमारुरोहेत्यत्रापि संयोज्यम् । तृतीयान्तानि सर्वाण्याप्तपरिजनस्य विशेषणानि । टिप्प० - 1 वैशम्पायनस्य आक्रोशस्तिरस्कारस्तत्र तत्परेण, शुकरूपेण तेनैवागत्य कथाकीर्तने कृते अस्येयं दशा जातेति । 2 मृतस्य तापदूरीकरणे का शक्तिः ? धारागृहात् जलयन्त्रप्रवर्तनयापि आहृता (समन्ततः प्रवर्तिता) आर्तिर्येन, इत्यर्थः । पाठा० - १ दुःखित. २ क्रोशपरेण. ३ वितीर्णं. ४ विनिहितार्द्र. ५ स्फाटिकस्फुटित; स्फाटिक. ६ मृणालेन. ७ सकुसुमतल्प. ८ आहत; आहित; अकृत. ९ आयस्तेन. १० सजलपङ्कजकिञ्जल्ककह्लारप्रकरप्रचारणसंभ्रान्तेन. ११ अन्धकारशिशिर १२ संतापापहारिणा; संतापकारिणा. १३ मलयजरसचन्द्रार्द्रजलार्द्रचन्द्राश्रय; मलयजजलार्द्रचन्द्राश्रय. १४ दाहहेतुः .. 698 कादम्बरी । कथायाम्

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246