Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
च, अनुभूतास्मदालिङ्गनसुखो विस्मयोन्मुखेन मुनिकुमारकजनेनेक्ष्यमाणोऽन्तरिक्षमतिक्रम्यक्वाप्यदर्शनमगात् । गते च तस्मिन्हारीतः समाश्चास्य मां शारीरस्थितिकरणायोदतिष्ठत् । उत्थाय चान्यं मुनिकुमारक मत्पार्धे स्थापयित्वा निरगमत् । निर्वर्तितस्नानादिक्रियाकलापश्चात्मनैव सहापराह्नसमये पुनर्मामाहारमकारयत् ।
एवं चावहितचेतसा हारीतेन संवय॑मानः कतिपयैरेव दिवसैः संजातपक्षोऽभवम् । उत्पन्नोत्पतनसामर्थ्यश्च चेतस्यकरवम् - 'गमनक्षमस्तु संवृत्तोऽस्मि, तत्र नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् । महाश्वेता पुनः सैवास्ते । तत्किमुत्पन्नज्ञानोऽपि तद्दर्शनेन विनात्मानं निमेषमपि दुःखं स्थापयामि । भवतु । तत्रैव गत्वा तिष्ठामि' इति निश्चित्यैकदा प्रातर्विहारनिर्गत एवोत्तरां ककुभं गृहीत्वावहम् । अबहुदिवसाभ्यस्तगमनतया स्तोकमेव गत्वावशीर्यन्त इव मेऽङ्गानि श्रमेण । शुष्यच्चञ्चुपुटः पिपासया, नाडिंधमेनाकम्पितकण्ठः श्वासेन, तद -
***********
धाय नियुज्य चानुभूतं मदालिङ्गनसुखं येनैवंभूतो विस्मयोन्मुखेन कौतुकोज़कृताननेन मुनिकुमारकजनेन तापसशिशुजनेनेक्ष्यमाणो विलोक्यमानोऽन्तरिक्षमाकाशमतिक्रम्योल्लङ्ग्य क्वाप्यदर्शनमनवलोकनमगाद्ययौ । गते च तस्मिन्कपिञ्जले हारीतो मां समाधास्यावासनां दत्त्वा शारीरस्थितिकरणाय स्नानादिकृत उदतिष्ठदुत्थितो बभूव । उत्थाय चान्यं मुनिकुमारकं तापसकुमारकं मत्पार्धे मदभ्यणे मत्समीपे स्थापयित्वा संन्यस्य निरगमनिर्ययौ निर्जगाम । निर्वर्तितो विहितः स्नानादिकायाः क्रियायाः कलापः समुदायो येनं सोऽपराह्नसमये तृतीयप्रहरे पुनरात्मनैव सह स्वेनैव समं मामाहारमशनमकारयद् व्यधापयत् ।।
एवं चावहितचेतसा सावधानचित्तेन हारीतेन संवद्यमानो वृद्धिं प्राप्यमाणः कतिपयैः कियद्भिरेव दिवसैः संजातो सुनिष्पन्नौ पक्षौ वाजौ यस्यैवंभूतोऽभवमजनिषम् । 'पक्षो गरुच्छदश्चापि पिच्छं वाजस्तनूरुहम्' इति हैमः । उत्पन्नं संजातमुत्पतनस्योड्डयनस्य सामर्थ्य बलं यस्मै एवंविधश्च चेतसीत्यकरवमरचयम् । गमने चलने क्षमः समर्थस्त्वहं संवृत्तो निष्पन्नोऽस्मि । नामेति कोमलामन्त्रणे । चन्द्रापीडस्योत्पत्तिर्जन्म तस्य परिज्ञानमवबोधः । चन्द्रापीडोत्पत्तिपरिज्ञानं तु जातमेवास्तीत्यर्थः । महाश्वेता च पुनः सैवास्ते विद्यते । तत्तस्मात्कारणादुत्पन्नज्ञानोऽपि संजातजातिस्मरणोऽपि तस्या दर्शनेनावलोकनेन विनात्मानं किं किमर्थं निमेषमप्यक्षिस्पन्दमात्रमपि दुःखं स्थापयामि । भवतु जायताम् । तत्रैवाच्छोदोपान्ते गत्वा तिष्ठाम्यवस्थानं करोमीति निश्चित्य निर्णयं कृत्वैकदैकस्मिन्समये प्राप्तः प्रभाते विहारार्थं यात्रार्थं निर्गत एवोत्तरामुदीची ककुभं दिशं गृहीत्वावहमचलम् । अबहुदिवसैः स्तोकदिनैरभ्यस्तं प्रारब्धं गमनं येन स तस्य भावस्तत्ता तया, स्तोकमेव स्वल्पमेव गत्वा मे ममाङ्गानि हस्तपादादीनि श्रमेण प्रयासेनावशीर्यन्त इव स्फुट्यन्त इव । पिपासयोदन्यया शुष्यशोषं प्राप्नुवच्चञ्चुपुटं बोटिपुटं यस्य सः । 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । नाडिं धमतीति नाडिंधम एवंविधेन श्वासेन वस -
-- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -टिप्प० - 1 तत्र नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् ? किमग्रे विवक्षितम् ? (उत्पत्तिपरिज्ञानं तु जातमेवास्तीति किमाधारादुच्यते, क्योत्पत्तिरस्मै सूचिता ?) । 'तत्र न मे चन्द्रापीडोत्पत्तिपरिज्ञानम्, (तत्र गमनक्षमावस्थायामपि चन्द्रापीडोत्पत्तिपरिज्ञानं न मे जातम्)' इत्युचितः पाठः । 2 'अवशीर्यन्त इव मेऽङ्गानि इतिरूपेण पूर्ववाक्ये यदा तत्तत्क्रियाया एव प्राधान्येन निर्देशः प्रक्रान्तस्तर्हि अग्रेपि सोयमेव प्रक्रमो निर्वाह्यः । ततश्च - 'अशुष्यच्चञ्चुपुटं पिपासया, नाडिन्धमेन आध्मायत कण्ठः श्वासेन,' इत्येव पाठो ग्रन्थाभिमतः ।
-
-
-
-
पाठ० - १ अदर्शनपथम्. २ अन्यतमम्. ३ निवर्तित. ४ अपराह्नसमये; सायाह्नसमये. ५ आहित. ६ नाम तावत्. ७ दुःखे. ८ अशुष्यत्. ९ चञ्चुपुटम्. १० अकम्पत; अध्यायत.
(जाबाल्याश्रमं त्यक्त्वा शुकस्योड्डयनम् ।
उत्तरभागः।
683
Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246