Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 208
________________ खलु शठमतेः सर्व एव दोषः, येन जानताप्युत्पत्तिसमय एव वत्सस्य कृते नेदमायुष्करं कर्म निर्वर्तितम् । अधुना सिद्धप्रायमेवेदम् । न दुःखासिका भावनीया । मत्पादमूले तावत्स्थीयताम्' इत्येवमाज्ञापितस्तु तातेन विगतभीर्व्यज्ञोपयम् - 'तात यदि प्रसादोऽस्ति ततो यत्रैवासावुत्पन्नस्तत्रैव गमनायाज्ञापयतु मां तातः इत्येवं विज्ञापितस्तु मया पुनराज्ञापितवान् - 'वत्स, शुकजातावसौ पतितः । तद्गत्वापि तमद्य नैव वेत्सि नाप्यसौ त्वां वेत्तीति । तत्तिष्ठतु तावत् इति । अद्य च प्रातरेवाहूय मामाज्ञापितवान् - 'वत्स कपिजल, महामुनेर्जाबालेराश्रमपदं सुहृत्ते प्राप्तः । जन्मान्तरस्मरणं चास्योपजातम् । तद्गच्छ संप्रति तं द्रष्टुम् । मदीयया चाशिषानुगृह्य वक्तव्योऽसौ - वत्स, यावदिदं कर्म परिसमाप्यते तावत्त्वयास्मिन्नेव जाबालेः पादमूले स्थातव्यमिति । अपि च त्वदुःखदुःखिताम्बा ते श्रीरपि तस्मिन्नेव कर्मणि परिचारिका वर्तते । तया तु शिरस्युपाघ्रायैतदेव पुनःपुनः संदिष्टम् । एवमुक्त्वाऽकठोरशिरीषकुसुमशिखासूक्ष्माग्रोब्रेदपक्ष्मलानि गात्राणि पुनःपुनः पाणिना परामृश्यान्तर्हदयेनादूयत । तथा दूयमानहृदयं च तमवदम् - *********** जल, स्वदोषस्य निजदूषणस्य शङ्कारेका परित्यज्यतां मुच्यताम् । खल्विति निश्चयेन । शठमतेर्मूर्यबुद्धेर्ममैवायं दोषः, येन कारणेन जानताप्यवबुध्यतापि मया श्वेतकेतुनोत्पत्तिसमय एव वत्सस्य पुण्डरीकस्य कृत आयुष्करं दीर्घजीवितकारि कर्म न निर्वर्तितं न कृतम् । अधुना सांप्रतमिदानीमिदं कार्यं सिद्धप्रायमेव संजातमेव । अतो दुःखासिका न भावनीया । मनसि दुःखं नानेयमित्यर्थः । मत्पादमूले मच्चरणतले तावदवस्थीयतामवस्थानं क्रियतामित्येवं तातेनाज्ञापितस्तु कथितस्तु विगतभीरहं व्यज्ञापयं विज्ञप्तिमकरवम् । हे तात हे पितः, यदि प्रसादः प्रसन्नतास्ति ततो यत्रैव यस्मिन्स्थलेऽसौ पुण्डरीक उत्पन्नस्तत्रैव तस्मिन्स्थले गमनाय मामाज्ञापयत्वाज्ञां ददातु तातः इत्येवं विज्ञापितस्तु मया पुनर्मामित्याज्ञापितवानाज्ञां दत्तवान् । इतियोत्यमाह - वत्स इति । हे वत्स हे पुत्र हे सूनो, शुकजातावसौ पतितस्तस्माद्धेतोगत्वापि तत्र तमय त्वं नैव वेत्सि । नाप्यसौ शुकस्त्वां भवन्तं वेत्ति । तावत्सांप्रतं तद्गमनं तिष्ठत्वास्ताम् । अद्य च प्रातरेव प्रत्यूष एवाहूय मामाज्ञापितवानाज्ञां दत्तवान् । हे वत्स कपिञ्जल, महामुनेर्जाबालेराश्रमपदं सुहृन्मित्रं ते तव प्राप्तः । अस्य शुकस्य जन्मान्तरस्य स्मरणं च भवान्तरज्ञानं चोपजातम् । संप्रतीदानीं तद्गच्छ व्रज तं शुकं द्रष्टुं विलोकयितुम् । मदीययाशिषाऽऽशीवदिनानुगृह्यानुग्रहविषयीकृत्यासौ शुक इति वक्तव्यो भणितव्यः । इतिद्योत्यमाह - हे वत्सेति । हे वत्स, यावदिदं पूर्वोक्तं कर्म परिसमाप्यते परिपूर्णीक्रियते तावत्कालमस्मिन्नेव जाबालेः पादमूले त्वया स्थातव्यं स्थेयम् । अपि च तव दुःखेन दुःखिता पीडिता ते तवाम्बा माता श्रीरप्येतस्मिन्नेव कर्मणि परिचारिका सपर्याकारिणी वर्तते । तयाप्यम्बयापि शिरस्युत्तमाङ्गे मस्तक उपाघ्राय चुम्ब्यैतदेव पूर्वोक्तं पुनः पुनः संदिष्टं कथितमुक्तम् । इत्येवमुक्त्वा प्रतिपाद्याऽकठोराण्यकठिनानि कोमलानि मृदूनि यानि शिरीषकुसुमानि तेषां शिखा तस्याः सूक्ष्मोऽणुरग्रस्य य उद्भेदस्तद्वत्पक्ष्मलानि कोमलानि गात्राणि शरीराणि पुनः पुनः पाणिना हस्तेन परामृश्य परामर्शनं कृत्वा हृदयेन चेतसादूयताखिद्यत । तथा दूयमानहृदयं खिद्यमानचेतसं च - - - - -- - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 दुःखपूर्विका आसनक्रिया (धात्वर्थनिर्देशे ण्वुल), दुःखेनाऽवस्थानमित्याशयः । 2 यदा 'अस्मिन्नेव' इति विशेष्यते तर्हि 'पादमूले' इति न युज्यते । अत एव 'आश्रमे इत्येव पाठो योग्यः । 3 अनुपपदात् ल्यब् न युज्यते . - - पाठा० - १ आयुःकामं कर्म. २ निवर्तितम्. ३ व्यज्ञपयम्. ४ तदा. ५ न परिसमाप्यते. ६ आश्रमे. ७ गात्राणि मे. (कपिज्जलस्य श्वेतकेत्वादिवृत्तनिवेदनम् उत्तरभागः। Y681)

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246